________________
१७ सर्गः] हीरसौभाग्यम् ।
९१७ प्रशस्तिसूत्रम् । श्रीपतिरिव संपद्भिः श्रीपतिनामा विशारदेन्दुरभूत् । दिक्कुम्भिवबभूवुर्यस्याष्टौ पण्डितोत्तंसाः ॥ १ ॥ वैराग्यैलब्धिभिरपि भाग्यैः सौभाग्यवैभवैरधिकैः । यस्य समो न परोऽभूद्भानोरिव कोऽपि तेजोभिः ॥ २ ॥ यन्मनुजशिष्यवृषभस्त्रिजगद्विद्वत्पुरंदरः समभूत् । चतुरास्यः कविरगणितयद्गुणगणनाचिकीरासीत् ॥ ३ ॥ श्रीमज्जगर्षिविबुधो जम्बुरिव शीललीलया जज्ञे । यत्तपसस्तेनोरविरसासहिर्गगन इव गतवान् ॥ ४ ॥ षट्रायानामिव यो विराधनाः प्रोज्झति म षड्विकृतीः । निर्विकृतिकान्यशेषाण्यपि विजहौ दुःकृतानीव ॥५॥ यावज्जीवं गौतम इव षष्ठैः पारणां विभुर्विदधे । पुनरेकस्मिन्स्थाने भक्तजले विरचयांचक्रे ॥ ६ ॥ लुम्पाकैर्गुण्टाकैरिव लुण्ठितनिखिलबोधिबीजधनम् । व्याप्तं तद्वर्गेण च तमोगुणेनेव भूतपतिम् ॥ ७ ॥ सौराष्ट्रजनपदं यः प्रतिबोधितवाननन्यमहिमनिधिः । वज्रखामी सौगतजनैर्यथा बौद्धधरणिधवम् ॥ ८ ॥ (युग्मम्) प्रस्रवणममृतमिव गदगणान्गुरोः शमयति स्म मूर्तिमताम् । देवा अपि यत्सेवां भक्ता इव कुर्वते तपसा ॥९॥ नृपमालदेवपृष्ठे प्रविष्टवान्यद्विवाददरितमनाः । योधपुरे किल पाशादिनचन्द्रो वाचकः सुचिरम् ॥ १० ॥ विष्णोः श्रीरिव हृदये रमते स्मैकादशाङ्कि(ङ्गि)कायस्य । भेजुरनेके मुनयोऽप्युपकारिणमिव गणाधीशम् ॥ ११ ॥ श्रीसीहविमलविबुधस्तस्य विनेयोऽजनिट शिष्टबुधः । यद्धिषणाजितधिषणोऽध्येतुं दिवि कविसमीपेऽगात् ॥ १२ ॥