________________
काव्यमाला।
हिमाचलः । 'अहिराण्मेनकाप्राणेशो हिमवान्' इति हैम्याम् । अनुचके सदृशीकृतः । किंमतैः सौधैः । चन्दिरकान्तानां चन्द्रोपलानाम् । चन्दिर इति चन्द्रमाः शेषनाममालायाम्, अन्येष्वपि ग्रन्थेषु दृश्यते । गर्भे मध्ये संदर्भो रचना येषां तादृशेभ्यः शृङ्गेभ्यः सवन्तो निःसरन्तोऽम्बुपूराः पयःप्रवाहा येषु तैः॥
वातातिवेल्लद्धृजपल्लवाग्रकरण रावेण च किङ्किणीनाम् । . या वैभवस्पर्धितया मघोनः पुरी मयादाह्वयतीव योद्धम् ॥-१११ ॥ या नगरी वैभवेन स्वलक्ष्म्या सार्धे स्पर्धितया संहषिभावेन मघोनः शक्रस्य पुरीममरावतीं स्मयादहंकाराद्योढुं संग्रामं कर्तुम् । उत्प्रेक्ष्यते-आह्वयत्याकारयतीव । केन । वातेन वायुना अत्यतिशयेन वेल्लन्तश्चञ्चलीभवन्तो ये ध्वजपल्लवाः पताकावस्त्राणि तेषामप्रः स एव करो इस्तस्तेन । च पुनः कैन । किङ्किणीनां क्षुद्रघण्टिकानां रावण शब्देन ॥
श्रीवत्सरामाङ्गजकम्बुताय॑चक्राङ्कितैारकितैनिकेतैः । ... जज्ञे मुकुन्दैरिव यत्र चित्रमेतत्परं धेनुकमद्विषद्भिः ॥ ११२ ॥ यत्र मरकतानामिमानि मारकतानि अश्मगर्भसंबन्धीनि तैनिकेतैर्गुहैः । 'शङ्के स्वसंकेतनिकेतमाप्ताः' इति नैषधे । मुकुन्दैः कृष्णैरिव जज्ञे जातम् । अत्र बहुवचनं बहुवासुदेवापेक्षया, महत्त्वख्यापनार्थे वा । यथा च जिनशतके-'यत्क्रमाश्चक्रिणो वा' इति । किंभूतैर्मुहैः कृष्णैश्च । श्रीलक्ष्मीः, वत्सास्तर्णकाः, श्रीवत्सो हृदयचिह्नम् । उत्तमपुरुषाणां वक्षसि लक्षणविशेषः । रामाः स्त्रियः, रामो बलभद्रश्च । अङ्गजा नन्दनाः, अङ्गजः कामश्च । कम्बवः शङ्खाः, कम्बुः पाञ्चजन्यः । गृहेषु कम्बवो दृश्यन्ते । यथा नैषधे-'बहुकम्बुमणिर्वराटिका-' इति। ताा अश्वाः, तायो गरुडश्च । तेषां चक्राणि समूहाः, चक्रं सुदर्शनं च। तैरङ्कितैः सहितैः। परं केवलमिदं चित्रमाश्चर्यम् । यनिकेतैर्धेनुकं धेनुसमूहो गोकुलमद्विषद्भिः पालयद्भिः । 'धेनूनां धेनुकं धेन्वन्तानां गोधेनुकादयः' इति हैम्याम् । कृष्णैस्तु धेनुकनामा असुरस्तं द्विषद्भिर्दुह्यद्भिस्तस्य द्विषद्भिः शत्रुभिर्वा घातुकैः ॥
एतज्जगजित्वरलक्ष्मिवीक्षाक्षणोदिताद्वै(द्भूतकुतूहलेन । शङ्केत्रिदश्यः स्तिमितीभवन्त्यो विभान्ति यद्वेश्मसु शालभञ्ज्यः ॥११३॥ यद्वेश्मसु पुरीमन्दिरेषु शालभज्यः पुत्रिका विभान्ति । तत्रैवं शङ्के मन्ये । एतस्याः पुर्या जगतां त्रिभुवनपुरीणां जिल्वर्या जयनशीलाया लक्ष्म्याः वीक्षा विलोकनं स एव क्षण उत्सवस्तेनोदितमुद्भूतं यत्कुतूहलं कौतुकं तेन स्तिमितीभवन्त्यो निश्चला जायमानास्त्रिदश्यो देव्य इव । लक्ष्मीशब्दः समासमध्ये हस्वोऽप्यायाति । यथा ऋषभनम्रस्तवे-'वरणलक्ष्मिकरग्रहणोत्सवे' इति ॥