________________
१७ सर्गः] हीरसौभाग्यम् ।
८९५ यामि, कायेनौदारिकाब्रह्म न कारयामि, मनसौदारिकाब्रह्म नानुमोदे, वचसौदारिकाब्रह्म नानुमोदे, कायेनौदारिकाब्रह्म नानुमोदे, इत्यौदारिकेन मनोवाकायैः करणकारणानुमोदनैनव भेदाः । तथैव वैक्रियेण सममनया रीया नव भेदा भवन्ति । संघीभूय सर्वेऽप्यटादश जाताः । एवमष्टादश ब्रह्मस्थानानि । अथ तान्यशेषाणि समस्तान्यपि मध्यदश पापस्थानानि क्षणानिमेषमात्रादपि मृषा मिथ्या भवन्तु । कानीव । वासीव । यथा द्यूतकृतां दौरोदरिकाणां वचनानि क्षणान्मिथ्या भवन्ति ॥
कोपं हृदः शल्यमिव प्रहाय सत्त्वानशेषान्क्षमयामि सम्यक् । मयार्दिताः प्रागिह वैरिणेव क्षाम्यन्तु ते मय्यनुदीतवैराः ॥ १४९ ॥ एतस्यामवस्थायामहमशेषान् समस्तान् सप्त लक्षाः पृथ्वीकाययोनयः, सप्त लक्षाः अप्काययोनयः, सप्त लक्षाः तेजस्काययोनयः, दश लक्षाः प्रत्येकवनस्पतिकाययोनयः, चतुर्दश लक्षाः अनन्तवनस्पतिकाययोनयः, द्वे लक्ष द्वीन्द्रियाणां योनयः, द्वे लक्षे त्रीन्द्रिययोनयः, द्वे लक्षे चतुरिन्द्रिययोनयः, चतस्रो लक्षाः पञ्चेन्द्रियतिरयां योनयः, चतस्रो लक्षाः नारकाणां योनयः, चतस्रो लक्षाः देवानां योनयः, चतुर्दश लक्षा मनुष्याणां योनयः । एवं सर्वा अपि संमिलिताः सन्त्यश्चतुरशीतिलक्षजीवयोनयो भवन्ति । एतांश्चतुरशीतिलक्षयोनिसत्कान् सत्त्वान् जीवान् सम्यक मनोवाकायैः कृला क्षमयामि पादयोर्लगिला ममापराधं तितिक्षे विनयामि । किं कृता । हृदो हृदयाकोपं क्रोधं प्रहाय संत्यज्य । किमिव । शल्यमिव । यथा केनापि प्रकारेण केनचिद्वै. रिणा परमवैरेण कृला हृदि विषये निक्षिप्तमायसशस्त्रं नाराचं वा शङ्कु वा काष्ठघटितकीलिकां वा उद्भियते। तथा ये सत्त्वा मया प्राग् जन्मनि इहास्मिन् भवे वा वैरिणेव शत्रुणेव अर्दिताः पीडिताः ते सर्वे मां क्षाम्यन्तु मयिविषये क्षमां कुर्वन्तु । उपशाम्यन्लि. त्यर्थः । किंभूताः । अनुदीतवैराः मयि विषये अप्रकटितविरोधाः मुक्तविद्वेषाः क्षाम्यन्तु ॥ .. मैत्री मम खेष्विव सर्वसत्त्वेष्वास्तां क्षितिखर्बलिवेश्मजेषु ।
धर्मोऽर्जितो वैभववन्मया यस्तं प्रीतचेता अनुमोदयामि ॥१५०॥ ' - क्षितिः भूलोकः, सर्देवलोकः, बलिवेश्म पाताललोकः, तेषु जायन्ते स्मेति क्षितिखबलिवेदमजास्तेषु त्रिजगजन्मसु सर्वतिर्यकरनागासुरव्यन्तयॊतिवैमानिकनाकिनामसकलसत्त्वेषु समस्तजन्तुजातेषु विषये मम मैत्री सखिता आस्ताम् । केष्विव।खेष्विव । यथा आत्मीयजनेषु सख्यं स्यात् । अथवा 'मैत्री मम खैरिव सर्वसत्त्वैरास्तां क्षितिखर्बलिवेश्मजातैः' इति पाठः । तत्र खर्बलिवेश्मजातैः सर्वसत्त्वैः सार्धे खैरिव मम मैत्री अस्तु । पूर्वपाठस्तु "मित्ती मे सव्वभूएसु' इति प्रतिक्रमसूत्रानुसारेण । अथ पुनरर्य:-यो मया वैभववत् संपत्तिरिव धर्मोऽर्जितः संचितः । प्रीतचेताः हृष्टमनाः सन् तं धर्म पुण्यं सुकृतमनुमोदयामि प्रशंसामि ॥