________________
८८९
१७ सर्गः) हीरसौभाग्यम् । तपःसु । उत्प्रेक्ष्यते-द्वादशभेदभिन्नेषु द्वादशसंख्येषु अहर्मणीनां सूर्याणां मण्डलेषु बिम्ब विव । यथा भात्कराणां तेजो दुःसहं तथैव तपसामपि । तथा च यथा कर्मणां प्रभावस्तथा तपसामपीति । च पुनरत्र भवे अस्मिन् जन्मनि उपलक्षणादन्यस्मिन्नपि भवे ये मम वीर्ये वीर्याचारविषये अतीचारा अभवन् ते अतीचारा मे मम मृषा मिथ्या आसतां भवन्तु । सर्वेषामप्यतीचाराणां मम मिथ्यादुःकृतमस्त्वित्यर्थः ॥ इति पञ्चज्ञानाचारादि. पश्चाचारातीचारालोचनम् ॥
एकेन्द्रिया भूजलवद्विवायुवनान्यहन्यन्त मयाङ्गिनो ये। बिभ्राम्यता भूरिभवेषु कर्मवशेन देशेष्विव दैशिकेन ॥ १३१ ॥ -
ये भुवः पृथिवीकायिका, जलान्यप्कायिका वहयस्तेजस्कायिका वायवो वायुकापिका वनानि वनस्पतिकायिका एकं स्पर्शनं शरीरं तल्लक्षणमिन्द्रियम् हृषीकं येषां ते एकेन्द्रिया अङ्गिनः पूर्वोक्ताः पञ्च स्थावराः प्राणिन: मया महन्यन्त हताः। अत्र भवे अन्यत्र भवे वा इति शेषः । मया किं कुर्वता। कर्मणां ज्ञानावरणीयादीनामष्टसंख्याकानां वशेनायत्तत्वेन भूरिष्वनन्तेषु. भवेष्ववतारिषु बिभ्राम्यता विशेषेण एकद्वित्रिचतुःपञ्चेन्द्रियसंज्यसंज्ञित्वेन चतुरशीतिलक्षजीवयोनिषु भ्रमणीं कुर्वता । केनेव । दैशिकेनेव । यथा पान्थेन कर्मणा खपरकार्याणां वशेनाधीनतया देशेषु विविधजनपदेषु पर्यटनं प्रणीयते ॥
संध्ये दिनानामिव जन्मिनां द्वे येषां हृषीके भवतो हतास्ते । · मया जलौकःकृमिशुक्तिशङ्खमुखाः प्रमादैकवशंवदेन ॥ १३२ ॥
येषां जन्मिनां जन्तूनां द्वे द्विसंख्ये हृषीके स्पर्शनरसनलक्षणे शरीरजिह्वारूपे इन्द्रिये भवतः । केषामिव । दिनानामिव । यथा दिवसानां द्वे संध्ये दिनानन दिवसावसानल. क्षणे पितृखौ स्याताम् । 'संध्या तु पितृसूः' इति हैम्याम् । ते जलौकसो जलसर्पिण्यः कृमयः कीटका गण्डोलका वा शुक्तयो मुक्तास्फोटाः । 'मुक्तास्फोटोऽब्धिमण्डूकी। शुक्तिः' इति हैम्याम् । मुक्ताफलोत्पत्तिभुवोऽन्या वा । शङ्खाः कम्बवः ते मुखा मुखे वा आदौ येषां तादृशा द्वीन्द्रिया जीवा मया हता विरोधिताः । किंभूतेन मया। प्रमा. दोऽनवधानता तस्य एकमद्वितीयतया वशंवदेनाधीनेन । प्रमादिना इत्यर्थः ॥
विशां वयांसीव भवन्ति येषां त्रीणीन्द्रियाणीह शरीरभाजाम् । गोपालिकामत्कुणकीटिकाद्या व्यापादितास्ते तु मया कथंचित् १३३ येषां शरीरभाजां जीवानामिह संसारे जगति वा तिर्यग्गतौ वा त्रीणि स्पर्शनं शरीरं रसनं जिह्वा घ्राणं नासिकालक्षणानि त्रिसंख्याकानि इन्द्रियाणि करणानि भवन्ति । कानीव । वयांसीव । यथा विशां मनुष्याणां त्रीणि बाल्ययौवनवार्धक्यलक्षणानि वयांस्यवस्थाविशेषाः स्युः । ते गोपालिका धनेडिकानि धान्य कीटका मत्कुणकाः कीटि
११२ . .