________________
१७ सर्ग: हीरसौभाग्यम् ।
८७ इति विशेषप्रकारेण प्राकृतेभ्यस्तपोभ्योऽत्यभ्यधिकविषयां दुष्करतपोविशेषरूपां संले. 'खनां कृत्वा ॥
अम्भोजनामा इव ये त्रिलोक्याः सिषेविरे नीरधिनन्दनाभिः । भूता भविष्यन्ति वसन्ति सार्वास्ते मे शरण्याः शरणीभवन्तु ॥१२॥ ते सर्वे सास्तिीर्थकरा अशरणाः शरणा भवन्विति शरणीभवन्तु त्राणाय जायन्ताम् । कस्य । मे मम संसारभीरुः तस्य । किंभूताः । शरण्याः शरणागतवत्सलाः । पुनः किंभूताः। अतीतायामुत्सर्पिण्यां केवलज्ञानिप्रमुखाः अथ वा अस्यामेवावसर्पिण्यामत्र भर. तक्षेत्रे ऋषभदेवादिकाः पञ्चमारकापेक्षया चातुर्थारके पूर्वजातत्वादतीता एवोच्यन्ते । अनन्ताः संजाताः पुनर्ये भविष्यन्ति । अनांगतकाले पद्मनाभादिमा उत्पत्स्यन्ते पुनर्ये सन्ति सीमंधरखामिप्रमुखा इदानींतने काले विहरमाना विद्यन्ते । यत्तदोर्नित्याभिसंबन्धात्ते के।ये सार्वा अम्भोजनाभा नारायणा इव । 'यत्क्रमाश्चक्रिणो वा' इति जिनशतके बहुत्वम् । त्रिलोक्या जगत्रयस्य नीरधिनन्दनाभिलक्ष्मीभिः सिषेविरे सेविताः ॥
यैरन्तरे ध्यानधनंजयस्य प्रज्वाल्य दुःकर्ममलं विशुद्धः । असर्जि जाम्बूनदवन्निजात्मा ते सन्तु सिद्धाः शरणं शरण्याः॥१२॥ ते सिद्धा मुक्तात्मानो निर्वाणं प्राप्ताः सत्त्वाः शरणमर्थान्मम त्राणाः सन्तु भवन्तु संसारादक्षका भवन्तु । किंभूताः । शरण्याः शरणे साधवः । 'तत्र साधौ हिते च यः' इति यप्रत्ययः । ते के । यः सिद्धानं तदेव धनंजयो वह्निस्तस्यान्तरे मध्ये दुष्टानि दुरन्ताधिव्याधिदुर्गतिरूपविपाककारित्वादशुभानि नृशंसानि कर्माणि तान्येव मलं कि तं प्रज्वाल्य भस्मीकृत्य निजस्यात्मन आत्मा जीवो विशुद्धो निर्मल: कर्मरहितः असर्जि सृष्टः कृतः । किंवत् । जाम्बूनदवत् । यथा दृषदादेर्मलं कृशानुना प्रज्वाल्य सुवर्ण मुज्यते ॥ . वितन्वते ये भ्रमरा इवात्मवृत्तिं स्मरं नन्ति च शंभुवये ।
ते साधवः स्युः शरणं तपस्याधुरं धुरीणा इव धारयन्तः ॥ १२६ ॥
ते साधवः श्रमणाः। ममेति शेषः । शरणं स्युर्भवेयुः। किंभूताः । धुरीणा धौरेयकाः वृषभा इव । तपस्याधुरं दीक्षायाः सर्वात्मना समनं क्रियाकलापादिप्रकारकरणरूपधुर्वी धारयन्तः बिभ्रतः । ये साधवो भ्रमरा मधुकरा इव आत्मवृत्ति निजजीविकां माधुकरी वृत्ति वितन्वते कुर्वते । च पुनर्ये शंभुवदीश्वर इव जगद्विडम्बकं स्मरं नन्ति मदनं व्यापादयन्ति ॥
मज्जज्जनस्यास्ति करावलम्ब इवातिभीमे भववारिधौ यः । भूयात्स धर्मः शरणं सुधांशुः सुधामिवान्तः करुणां दधानः ॥ १२७ ॥ स धर्मः शरणं भवभीतस्य मम रक्षको भूयात् । किंभूतः । अन्तर्मध्ये करुणां सर्व