________________
८७२
काव्यमाला।
'तू तूरं स्मरध्वजः' इति हैम्याम् । ओघाः समूहास्तेषां ध्वनिभिनीनाप्रकारप्रसरनिघोषैः पूर्यमाणः बहलीक्रियमाणैः ॥ इति द्वीपोन्नतपुरसंमुखागमनवर्णनम् ॥ तदुत्सवे मूर्छति भूर्भुवःस्वस्त्रयीप्रसत्तिं प्रदिशत्यपूर्वाम् । ..
अलंचकार प्रभुरुन्नताख्यां पुरं हरिभरवतीमिवासौ ॥ ७७ ॥ प्रभुहीरविजयसूरि नतमिति आख्या नाम यस्यास्तादृशीं पुरं नगरीमलंचकार भूष. यामास । क इव । हरिरिव । यथा नारायणो धनदनिर्मितां द्वारवती द्वारका नगरीमलं.. करोति । कस्मिन् सति । तदुत्सवे स चासावुत्सवश्च तदुत्सवः द्वीपोन्नतादिसंघप्रारब्धसूरिप्रवेशमहामहस्तस्मिन्मूर्च्छति वृद्धिमतिशायितां श्रयति प्राप्नुवति सति । किं कु. यति तदुत्सवे। भूर्भुवःखस्त्रय्या नागलोकनाकिलोकभूमिलोकानां त्रिकस्य अर्थात्रिजगजनानां प्रसत्तिं मनःप्रसन्नता प्रमोदप्रकर्ष प्रदिशति प्रयच्छति ददति ॥
तस्मिन्नतेर्गोचरयांचकार चैत्येषु तीर्थाधिपतिं मुदा सः । । कण्ठीरवः शैलगुहामिवाथानैषीद्विभूषां वसतिं व्रतीन्द्रः ॥ ७८ ॥ .
स हीरसूरिस्तस्मिन्नुन्नताभिधाननगरे चैत्येषु ऋषभदेवप्रमुखजिनप्रासादेषु तीर्थाधिपतिं जिनाधिराजप्रतिमां मुदा हर्षेण नतेः प्रणामस्य गोचरयांचकार विषयीकरोति स्म । नमस्कृतवानित्यर्थः । अथानन्तरं देववदनात्पश्चात् व्रतीन्द्रः सूरिः वसतिमुपायं विभूषां शोभामनैषीत्प्रापयति स्म । क इप । कण्ठीरव इव । यथा पारीन्द्रः शैलगुहां गिरिकंदरां विभूषां नयति ॥ इत्युपाश्रयागमनम् ॥
ततः समुद्दिश्य महेभ्यसभ्यान्धर्मोपदेशं स वशी दिदेश । पीयूषवत्तेऽपि निपीय वत्सा इवावहन्संमदमेदुरत्वम् ॥ ७९ ॥ ततो वसतावुपाश्रये आगमनानन्तरं स वशी जितेन्द्रियः सूरिर्महेभ्या व्यवहारिणस्ते एव सभ्याः सदस्याः सभाजनास्तानुद्दिश्य उद्देशं कृत्वा धर्मोपदेशं धर्मदेशनां दिदेश ददाति स्म । तेऽपि महेभ्यसभ्याः पीयूषवत्सुधारसमिव निपीय पीत्वा तद्दे. शनां सादरं श्रुत्वा संमदैरानन्दैः कृत्वा मेदुरत्वं पुष्टतामवहन्दधते स्म । के इव । वत्सा इव । यथा गवां तर्णका पीयूषं रूखमातुरूधोमध्यविनिःसरदभिनवं पयो दुग्धं पीला प्रमोदादाखाद्य मेदुरत्वमुपचयभावं वहन्ते । 'पीयूषोऽभिनवं पयः । पीयूषमपि' इति हैमीसूत्रवृत्त्याः ॥ .
क्षेत्रेष्विवाम्बूनि नभोम्बुवाहा द्युम्नांशुकान्यर्थिषु ते ववर्षुः । प्रभावनां श्रीफलपूगपूगैश्चक्रुस्ततो रूपकनाणकैश्च ॥ ८० ॥ .
ते सभ्यजनाः अर्थिषु तत्समयागतानेकयाचकविषयेषु गुम्नांशुकानि द्रव्यवस्त्रादीनि ववर्षः। प्रददुरित्यर्थः । क इव । नभोम्बुवाहा इव । यथा श्रावणमेघाः क्षेत्रेषु विषयेषु अम्बूनि पानीयानि वर्षन्ति । वर्षाऋतोरतिपूतलानभोमासोपादानम् । ततो याचकदानानन्तरं