________________
८१६.
काव्यमाला।
काढून वाञ्छन्निव । तेजःशब्देन प्रतापोऽप्युच्यते । यथा नैषधे-'एतस्योत्तरमद्य नः समजनि त्वत्तेजसा लइने-' त्वत्प्रतापानामतिक्रमेण तद्गृत्तिः ॥ त्रिभिर्विशेषकम् ॥ इत्यजयराजरोगापहारकाजयपार्श्वनाथप्रस्तावनम् ॥
नामेव तस्यावनिवल्लभस्य पार्श्वप्रभोस्तस्य बभूव नाम । तद्वासितस्येव पुरस्य वाराणस्या इवैतस्य निवासभूमेः ॥ ५७ ॥ तस्यावनिवल्लभस्य तस्य पूर्वकथितस्याजयस्य राज्ञो नाम्नवाभिधानेनैव पार्श्वप्रभोः श्रीपार्श्वनाथस्य नाम बभूव । अजयपार्श्वनाथ इति संजातम् । कस्येव । तेनाजयराजेन वासितस्य निवेशितस्य स्थापितस्य अजयपुरमिव। किंभूतस्य पुरस्य । अजयपार्श्वनाथस्य निवासभूमेः स्थितिस्थानकस्य : कस्या इव । वाराणस्या इव। यथा वाराणसी भगवतः श्रीपार्श्वनाथस्य जन्मभूमित्वाद्वासस्थानम् ॥ इति पाठान्तरम् ॥
ध्यातोऽधुनाप्येष पयोधिमध्ये प्रयाति वाते प्रतिकूलभावम् । निर्विघ्नयन्पोत इवाङ्गभाजः प्रभुः सुखं लम्भयति प्रतीरम् ॥ १८ ॥
भो भव्याः, अधुनापि पञ्चमारके अस्मिन्कलौ प्रवर्तमानेऽपि वा पयोधिमध्ये जलधिजलान्तराले ध्यातोऽर्थाल्लोकानगोचरीकृतः स्मृतोऽपि वा वाते प्रचण्डपवने प्रतिकूलभाव प्रतिकूलतां याति गच्छति सति एष प्रभुरजयपार्श्वनाथः अङ्गभाजः पार्श्वनाथम्मरणप्रवणाः प्राणिनः निर्गता विलयं प्राप्ता विघ्नाः प्रत्यूहा येभ्यस्ते निर्विघ्नान्करो. तीति । 'तत्करोति तदाचष्टे' इति प्रक्रियासूत्रेण जिः । 'मिर्डित्करणे' इति सारखते इति सारखतसूत्रेण जिप्रत्ययः । निर्विघ्यति निर्विघ्नयतीति निर्विन्नयन् । विनरहितान्कु. नित्यर्थः । निरन्तरायान् सृजन् सुखं यथा स्यात्तथा कुशलेनेत्यर्थः । प्रतीरं तटभूमी खखवेलाकूलावनी लम्भयति प्रापयति । क इव। पोत इव । यथा निर्वहनान्वोहित्थरहितांस्तथाम्भोधिमध्ये पतिताजनान् यानपात्रे खस्मिन्नधिरोप्य सुखेन तीरं नयति ॥
बहुदिदैः किं भवदीयभाग्यैरारोपितस्तेन महीधनेन । सुपर्वशाखीव समीहितानि यच्छंश्चिरं नन्दतु पार्श्वनाथः ॥ १९॥. भो भव्याः, किं बहूदितैः बहुभिरनल्परुदितैः कथितैः किमस्तु । एषोऽजयपार्श्वनाथः वो युष्माकं समीहितानि सम्यगैहिकानि पुत्रकलत्रद्रविणादीनि आमुष्मिकाणि खर्गापवर्गा. दिकानि कामितानि मनोरथान् यच्छन् पूरयन् चिरं बहुसमयमाकल्पान्तकालं यावन्नन्दतु विजयवान् प्रवर्तताम् । किंभूतः । तेन महीधनेनाजयराजेन आरोपितः स्थापितः । उत्प्रेक्ष्यते-भवदीयभाग्यैः युष्मत्संबन्धिभिः सुकृतैः सुपर्वशाखी कल्पवृक्ष इवारोपितः ॥ इत्यजयपार्श्वनाथप्रबन्धः । विस्तरतस्त्वेतद्यतिकरः शत्रुजयमाहात्म्यादवसेयः ॥
तत्रोपदिश्येति जनान्मुमुक्षुक्षोणीऋभुक्षा क्षणमक्षिलक्ष्यम् । . प्रणीय नत्वा च तमात्मना तत्पुरं पवित्रीकृतवान्म तद्वत् ॥ ६ ॥