________________
१७ सर्गः] हीरसौभाग्यम् ।
८५७ शास्त्रेष्वैक्यमेव दृश्यते । यथा-'नीली विनीलं नमः' । तथा-'जसतणुकंतिकडप्पसिणिद्धउ । सोहइ फणमणि किरणालिद्धउ नेनवजलहरतडिलयलंछिउ॥ इति । अत्र पार्श्वनाथो मरकतवर्णः, जलधरः श्यामवर्णः, अनयोरुपमेयोपमानता जाता इति ॥ इति श@जयपरिसरभुवं विहायाग्रे प्रस्थानम् ॥
कुत्रापि बन्धूनिव नन्दनस्य निकुञ्जपुञ्जान्सुमनोभिरांमान् । वेणीरिव व्योमपयोधिपन्याः कूलंकषाः कापि विशुद्धवारः ॥ २७ ॥ इवात्मदर्शान्धरणीन्दिरायाः क्वचित्तटाकांश्च पयःप्रपूर्णान् । मित्राणि सुत्रामपुरः किमत्र श्रीवासवेश्मानि पुनः पुराणि ॥ २८ ॥ हृल्लेखितामाकलयद्भिरात्मावतंसतां नेतुमिदं पदाब्जम् । श्राद्धैरिवानेकजनैः प्रणम्यमानः स पश्यन्पुरतोऽजिहीत ॥ २९ ॥ स प्रभुः सूरिः पुरतः शत्रुजयाद्रिकूटानि निर्मुच्याप्रेतनमार्गे अजिहीत । 'ओहाङ् गतो' धातुः । अद्यतनप्रयोगः । गच्छति स्म प्रचलितवान् । स किं क्रियमाणः । श्राद्धैः श्रावकैरिवानेकैर्विविधजातीयैर्बहुभिर्वा जनैः सौराष्ट्रराष्ट्रजन्मभिर्लोकैः प्रणम्यमानो न. मस्क्रियमाणः । जनैः किं कुर्वद्भिः । हल्लेखा उत्कण्ठा अस्त्येषामिति हल्लेखिन उत्कण्ठावन्तस्तेषां भावो हल्लेखिता औत्सुक्यम् । 'रणरणकोत्कण्ठे आयल्लकारतीहल्लेखोत्कलिके' इति हैम्याम् । आकलयद्भिर्बिभ्राणैः । किं कर्तुम् । इदं पदाब्जे सूरिचरणारविन्दमात्मनः खस्य अर्थान्मस्तके अवतंसता शेखरत्वं नेतुं प्रापयितुम् । पुनः स किं कुर्वन्। पश्यन्विलोकयन्। कान्। कुत्रापि प्रदेशे निकुञ्जपुञ्जान् वनप्रकरान् । उत्प्रेक्ष्यते-नन्दनस्य मन्दराद्रिद्वितीयमेखलावर्तिवासववनस्य बन्धून् सोदरान् इव । तत्तुल्यानित्यर्थः । किं. भूतान् । सुमनोभिर्विविधजातिकुसुमैरभिरामान् देवैश्च रमणीयान् । पुनः कापि भूमिभागे कूलंकषाः अभङ्गरङ्गत्तुङ्गतरङ्गसंगमागाहप्रबलप्रसरत्पयःपूररंहोनिष्पातिततटीस्तटिनीः पश्यन् । उत्प्रेक्ष्यते-व्योमपयोधिपत्न्याः गगनापगायाः गङ्गायाः वेणी: प्रवाहानिव । 'प्रवाहः पुनरोघः स्याद्वेणीधारारयश्च' इति हैम्याम् । किंभूताः । विशुद्धवारः विशुद्धं निर्मलमुज्वलं च वाः पानीयं यस्याम् । पुनः कान् । तटाकान् सरोवराणि पश्यन् । उत्प्रेक्ष्यते-धरणीन्दिराया भूमिश्रिय आत्मदर्शान्दर्पणानिव । किंभूतान् । पयोभिः पानीयैः प्रकर्षेण कण्ठं यावत्पूर्णान् निर्भरभृतान् । पुनः कानि पुराणि नगराणि पश्यन् । उत्प्रेक्ष्यते-अत्र मेदिनीमण्डले सौराष्ट्रमण्डले वा सुत्रामपुर इन्द्रनगरस्यामरावत्याः मित्राणीव । किंभूतानि पुराणि । श्रीवासवेश्मानि श्रीणां धनधान्यादिलक्ष्मीणां श्रियो हरिप्रियाया वा वासार्थ निवसनकृते मन्दिराणीव ॥ त्रिभिर्विशेषकम् ॥
क्रमद्वयीचक्रमणक्रमेणातिक्रम्य शको अतिनां स मार्गम् । वस्वोकसारावरजामिवात्राजयाभिधानां पुरमाससाद ॥ ३०॥
१०८