________________
१७ सर्गः]
हीरसौभाग्यम् ।
प्रोच्यमानं विचिन्त्य प्रजापतित्वात्सप्रजायाः खेदकारणं करुणया हृदये विचार्येव । इति किम् । यत्पाथःसु तदीयकुण्डसरःपुष्करप्रमुखेषु जलस्थानकेषु प्रथितेषु तीर्थतया विख्याति प्राप्तेषु सिद्धिसाधनस्थानकेषु लोकप्रसिद्धेषु पृथक् पृथक् गत्या इतस्ततः पर्यटनेन भिन्न भिन्न प्रदेशपरिभ्रमणेन कृत्वा एष मदुपक्रमलोको मध्यमलोकसंजातो जनः खिद्यति । पादचारित्वेन पर्यटने दुष्करदुःखितया खेदं प्राप्नोति इत्येष विमर्शः ॥
शत्रुजयाद्रेमहिमैकसिन्धोः सांनिध्यतोऽसावपि सिन्धुरासीत् । माहात्म्यभूमिः किमु किं न गङ्गासङ्गेन गङ्गीयति सिन्धुरन्या ॥२१॥ महिनामद्वैतमाहात्म्यानामेकस्याद्वितीयस्य सिन्धोः समुद्रस्य विमलादेः पुण्डरीकगिरेः सांनिध्यतः सामीप्यात्पाबें स्थित्या । उत्प्रेक्ष्यते-असी शत्रुजया सरिदपि माहात्म्यानामसाधारणप्रभावाणां भूमिः स्थानं किमु आसीजातेव । दृष्टान्तेनार्थ स्पष्टयति-युक्तोऽयमों वा । गङ्गासङ्गेन मन्दाकिनीसंपर्केण अन्या परा यमुनाप्रमुखा सिन्धुर्नदी किमिति वितर्के प्रश्ने वा नैव गङ्गीयति गङ्गेच नाचरति । अपि तु गङ्गव भवति ॥ . .
उत्तीर्णवांस्तां सरितं व्रतीन्दुः सिन्धुं सुराणामिव चक्रपाणिः । ईर्यापथिक्याश्च कृते तटे स्थाद्रष्टुं क्षणं तामिव कल्मषन्नीम् ॥ २२ ॥ व्रतीन्दुः साधुसुधाकरः सूरिः तां शत्रुजयानाम्नी नदीमुत्तीर्णवान् ‘एकं पादं जले कृला' इति सिद्धान्तोक्तविधिना उत्ततार । क इव । चक्रपाणिरिव। यथा नारायणो धातुकी. खण्डभरतक्षेत्रमण्डनामरकाभिधंराजधानीनायकं पाण्डुधात्रीपतिपुत्रकलत्रापहारकमर्धनरसिंहरूपेण पद्मोत्तरपृथिवीपतिं परिभूय द्रौपदी चादाय षड्भी रथैः सुस्थितसुरानुभावालवणार्णवमप्यवगाह्य पूर्वोत्तीर्णपाण्डवाप्रतिहतवहनाभावात्सुराणां सिन्धुं देवनदी गङ्गां खयमुत्तरति स्म । अत्रागमविधेः किमपि प्रयोजनं न, किं तु केवलं नद्युत्तरणमेवोपमानम् । च पुनः सूरिरीर्यापथिक्या ईर्यापथिकीप्रतिक्रमणस्य कृते कार्याय तटे शत्रु जयसरित्तीरे क्षणं क्षणमात्रं तिष्ठति स्म । उत्प्रेक्ष्यते-कल्मषाणि पापानि हन्तीति क. ल्मषनीं शत्रुजयां द्रष्टुं दृग्गोचरीकर्तुं क्षणं तस्थिवानिव । यतः सा पापहन्त्री ततस्तद्दर्शनमपवर्गजिगमिषया पापप्रहननोद्यतानां यतीनामप्युचितमेव दुरितघातसाधनत्वादिति ॥
पुंनागनारङ्गरसालसालप्रियालहन्तालतमालतालैः । कदम्बजम्बीरसनिम्बजम्बूसर्जार्जुनैरञ्जनवञ्जुलैश्च ॥ २३ ॥ कङ्केलिभिभूषिततीरभूमिर्यावन्मनोभीप्सितदानदक्षा । स्वसालतायाः स्पृहयात्मनीव सर्वैद्रुमैः सिन्धुरुपास्यतेव ॥ २४ ॥
पुंनागाः सुरपर्णिकाः पादपविशेषाः, नारङ्गाः प्रसिद्धाः, रसालाः सहकाराः इक्षवोऽपि, साला असनाः, प्रियाला राजादनाः, हन्ताला नाम देशविशेषप्रसिद्धवृक्षाः,