________________
काव्यमाला।
स्पर्धितः स्पर्धाविषयीकृतो दानस्य निजमदाम्बुनो गन्धो यैस्तान् । पुनः किंभूतान् । रोलम्बानां भ्रमराणां रावैर्गुजितैराकुलितान् सशब्दान्संजातान् ॥ अय हेमन्तःशाखाविशेषोन्मिषितप्रसूनान्शार्दूलबालानिव लोद्रसालात् । . . दृष्ट्वा हृदुत्पिञ्जलितैनिकुञ्जे ललविरे तत्ककुभः कुरङ्गैः ॥ ९१ ॥ ... निकुञ्जे उपवने नगरोद्याने कुरङ्गमगैस्तेषां लोद्रद्रुमाणां ककुभो दिशो ललछिरे उल्ल. हिताः । पलायितैरित्यर्थः । किंभूतैः । हृदि मनसि विषये उत्पिालत्वं भृशमाकुलत्वं जातं येषां तैः । किं कृत्वा । दृष्ट्वा। कान् । शाखाविशेषेषु शिखाग्रेषु उन्मिपितानि विकसितानि प्रसूनानि पुष्पाणि एषां तथोक्तान्। लोदा जातिविशेषा गान्धिकापणेषु प्रसिद्धाः । सालाः पादपास्तान् । कानिव। शार्दूलानां व्याघ्राणाम् । शार्दूलो राक्षसान्तरे । व्याघ्रऽत्र पशुभेदे च सत्तमे तूत्तरस्थितः' इत्यनेकार्थः । बालान् डिम्भानिव ॥ .
अथ शिशिरःपतिप्ररूद्वैः प्रचलत्पतङ्गपोतैः प्रियङ्गप्रकरैर्बभेऽस्मिन् । वनश्रियाः प्रावरणैरिवान्तर्विच्छित्तिमद्भिस्तुहिनद्विषद्भिः ॥ ९२ ॥
अस्मिन् पुरो वने प्रियङ्गप्रकरैः फलिनीपटलैः बभे । किंभूतैः । पतया श्रेण्या प्ररूढेरुद्गतैः । पुनः किंभूतैः । प्रचलन्तोऽन्तः संचन्तः पतङ्गानां विहङ्गानां पोताः शिशवो येषु ते तैः । उत्प्रेक्ष्यते-वनश्रिया उद्यानलक्ष्म्याः प्रावरणैरिव प्रच्छादनैरिव । पुनः किं. भूतैः । विच्छित्तिमद्भिः रचनाश्चितैः । पुनः किंभूतैः । तुहिनस्य हिमस्य । शीतस्येत्यर्थः । द्विषद्भिः शत्रुभिनिवारकैः ॥
दृग्दानदासीकृतदेववन्याः प्रगल्भसे त्वं पुरतः कियन्मे । .. वनश्रियाश्चैत्ररथं किमित्यं दन्ता हसन्त्या इव भान्ति कुन्दाः ॥१३॥ कुन्दा मुचकुन्दतरवो भान्ति शोभन्ते । उत्प्रेक्ष्यते-इत्यममुना प्रकारेण चैत्ररथमलकाकाननं प्रति हसन्या पराभूतिगर्भ हास्यं सृजन्त्या वनश्रियाः प्रह्लादनगरोपकाननलक्ष्म्या दन्ता दशना इव । इत्थं कथम् । हे चैत्ररथ, दृग्दानेनैव संमुखावलोकनेनैव दासीकृताः किंकयों देवानां वन्यो यावत्काननानि यया । 'स्ववनीसंप्रवदत्यिकापिका' इति नैषधे । तादृश्या मे मम पुरोऽने त्वं कियत् प्रगल्भसे कियन्तमुत्साहं वहसे । मत्पुरस्त्वं न किमपीत्यर्थः॥
इति षड्तवः । क्रीडत्तुरङ्गद्विपपद्मनेत्राः क्रीडासरस्यो विपिन विरेजुः । उच्चैःश्रवःस्वर्द्विरदाप्सरस्काः सुधापयोधेः प्रतिमा इवैताः ॥ ९४ ॥