________________
१६ सर्गः] हीरसौभाग्यम् ।
८४७ कृतैर्विहितः । कीदृशैः कृतैः । निर्जलैः पानीयर हितैः चतुर्विधाहारप्रत्याख्यानरूपैः । अत्र ये निर्जलान् सप्तषष्टानष्टमं चाष्टमं कुर्वन्तीति ते तृतीये भवे मोक्ष यान्तीत्यर्थः । अपि पुनर्यस्मिन् शत्रुजये आर्षभिणा ऋषभस्यापत्यमार्षभिर्भरतचक्रवर्ती तेन कारिता वार्धकिना निर्मापितां जिनेन्दोः खतातस्य ऋषभदेवस्यैव मूर्ति प्रतिमां नमस्कुर्वन् प्रत्यक्षलक्ष्यीकृत्य प्रणमन् सन् भवे संसारे एक एव नापरोऽवतारो जन्म अस्यास्तीति एकावतारी भवेत्स्यात् । मूर्ति किंभूताम् । मणिमयीं रत्नखरूपाम् । पुनः किंभूताम् । स्वर्णगुहागताम् ऋषभशिखरात्पश्चिमप्रदेशे वर्णनाम्यां गुहायां कंदरायां गतां प्राप्ताम् । आगमिष्यन्मन्दकालवशाल्लोलुपलोककृताशातनाभयादिन्द्रवचसा सगरचक्रिणा खर्णगुहायां स्वयं गुप्तीकृत्य स्थापितामित्यर्थः ॥
अत्रानन्तजिना अनन्तमुनिभिः सिद्धा विशुद्धाशया ___ ध्यानैर्वह्निभिरिन्धनप्रकरवन्निर्दह्य कर्मव्रजम् । सिद्धक्षेत्रमतो निगद्यत इदं चेदीहते मानसं
सिद्धिं वस्तादेह स्वयं वसति सा सत्संगमाकारिणी ॥ १४० ॥ अत्र शत्रुजये शैले न विद्यतेऽन्तोऽवसानं येषां तादृशैर्मुनिभिः साधुभिः सार्धम. नन्ताः प्रान्तातीताः कालस्यानन्त्याजिनास्तीर्थकराः सिद्धाः मोक्ष प्राप्ताः । किंभूताः । विशुद्धो निर्मल आशयोऽध्यवसाय: परिणामो येषां ते । किं कृत्वा । निर्दह्य नितरां ज्वालयित्वा । कम् । कर्मणां ज्ञानावरणीय-दर्शनावरणीय-मोहनीय-अन्तराय-वेदनीयनाम-गोत्र-आयु:-प्रमुखानामनेकजातीयानां प्राचीनाचीर्णशुभाशुभपरिणतीनां व्रजं समूहम् । कैः । ध्यानैः धर्मशुक्ल प्रणिधानैः कृत्वा । किंवत् । इन्धनप्रकरवत् । यथा वह्नि. भिर्हताशनैः काष्ठकलापो निर्दह्यते । अतः अनन्तानन्तभेदभिन्ना नगरे गणपरिकलिततीर्थकृतां सिद्धिगमनकारणादिदमपि तीर्थ सिद्धक्षेत्रं निगद्यते कथ्यते । ततो भो भव्याः, चेद्यदि वो युष्माकं मानसं मनः सिद्धिं समीहते, तत्तर्हि सा सिद्धिः स्वयमात्मनैव इह शत्रुजये वसतिं वासं विधत्ते । किंभूता सा। सद्भिरुत्तमैः समं संगम संयोगमा सामस्त्येन काश्तीत्येवंशीला ॥ इति शत्रुजयादिमाहात्म्यवर्णनम् ॥ . .... इत्यद्वैतप्रभावं विमलशिखरिणो भाषमाणो विशिष्य
___ श्रीमत्प्राचीनसूरीश्वर इव भगवानङ्गभाजां समाजे । सिद्धक्षेत्रेऽवतस्थे कतिचन दिवसान्कि न सिद्धो भविष्णुः
खेन श्रीतीर्थभर्तुः पदपरिचरणानन्दसान्द्रो मुनीन्द्रः ॥१४१॥ मुनीन्द्रो हीरविजयसूरिः कतिचन कियत्संख्याकान् दिवसान् यावत्सिद्धक्षेत्रे श्रीश@जयशैलोपरि विमलगिरिम् । 'उत्तिनिलउ सित्तुंजो सिद्धखित्तपुंडरीउ' इति शत्रुजयकल्पेऽभिधानानि । अवतस्थे अवस्थितिं कृतवान् । वार्धकात्पुनः पुनश्चढितुमुत्तरीतुं