________________
८२२
काबमाला। च चन्द्रेण काश्चनेन । 'तपनीयचामीकरचन्दमर्म इति हैम्याम् । तथा 'चन्द्रोऽम्बुका. म्ययोः। वर्षे सुषांचौ करे कंपिले मेचकेऽपि च ॥ इत्यनेकार्थः । अश्चिता सहिता भूमिका बजनि भवति स । उतोक्ष्यते-विकचचम्पकैर्विकचचम्पककुसुमोपचारैः परिचिता सहितेव ॥ इति शिखरपार्थप्रदेशाः ॥
सुरासुरनरस्फुरन्मियुनचालचित्रव्रजः - पुपोष सुषमा जिनावसथमण्डपस्यान्तरे । जगत्रयमिवागतं विमलशैलयात्राकृते
स्थितं किमतिमावतः पुनरिहार्हतः संनिधौ ॥ ८१॥ जिनावसथस अमचैत्यस मण्डपस रकमण्डपस्यान्तरे मध्ये सुरासुरनराणां देव. दानवमानवानां स्फुरतां शोमा लममानानां मिथुनानां दम्पतीसंबन्धियुगलानां चारूणि विलोकमनोहरावि यानि चित्राणि आलेख्वानि तेषां व्रजः सुषमां सातिशायिशोभा पुपोष पुष्णाति स्म । उत्प्रेक्ष्यवे-विमलशैलस्य श्रीशत्रुजयाद्रेर्यात्राकृते यात्राकरणार्थमागतं खखस्थानात्समायातं सत् अतिभावतो वासनाधिक्यात्पुनरर्हतः श्रीऋषभदेवस्य संनिधौ समीपे किमु स्थितं निरन्तरमुषितं जगत्रयं त्रैलोक्यमिव ॥ .
वरीतुममृताहयामिह पतिवरां कन्यकां . खयंवरणमण्डपे किमुपजग्मिवांसः समम् । जिनेन्द्रगृहमण्डपे लसदनल्पशिल्पीकृताः ।
सुरासुरधरास्पृशा समुदया ददन्ते मुदम् ॥ ८९ ॥ जिनेन्द्रगृहस्स प्रासादस्य मण्डपे जनाश्रये लसन्ति परस्परं श्लिष्यन्ति क्रीडन्ति वा शोभमानानि वा । 'लस श्लेषणकीडनयोः' अयं धातुः शोभार्थेऽपि दृश्यते । तथा अनल्पानि बहूनि विविधजातीयानि वा शिल्पानि चित्रविज्ञानानि । त्रिष्वपि कर्मधारयः । लसदनल्पशिल्पानि कृता लसदनल्पशिल्पीकृताः तादृशाः सुरा देवाः, असुरा दानवाः, धरास्पृशो मनुष्यास्तेषां समुदाया गया मुदं प्रमोदं ददन्ते यच्छन्ति।आनन्दयतीत्यर्थः । 'दद दाने' आत्मनेपदी । अत्र बहुवचनम् । उठोक्ष्यते-अमृतं मुक्तिस्तदेवाह्रयो नाम यस्याः । 'अथाह्वयोऽमिधा गोत्रं संज्ञानामधेयाः' इति हैम्याम् । तादृशीं पतिवरां खेच्छया खाभिलषितयोग्यवस्स वरयित्रीं खयंवरां कन्यका कुमारिकाम् । कन्यैव पति वृणोति नान्येति रीतिनीतिधर्माः । इत्याशयावरीतुं परिणेतुम् । अत्र तु मुक्तः कनीत्वं कविसमयानुसारेणैव । केवलं खयंवरणमण्डपे समं समकालमेकसमय एव देवदानवमानवव्रजाः किमुपजग्मिवांसः समागता इव ।
मवच्चरणसेवनैरषिगता धुलोकेन्दिरा - विनैव नरजन्मना दिश शिवश्रियं श्रीप्रभो।