________________
८२०
काव्यमाला।
जिनेन्द्रस्य मारुदेवस्य सदनं गृहम् ऋषभचैत्यं तस्याम्बरस्य गानस्य अन्तर्मध्ये अनु. षङ्गः संगमो मिलनमस्यास्तीति तादृशं शृङ्गाङ्गणं शिखरोपरितनप्रदेशस्तत्रानिलेन पवनेन प्रचलं यत्केतनं ध्वजस्तत्र स्फुरत् अकुण्ठः अमन्दो दुर्धर्षों वा कण्ठीरवः केसरी स कर्ता। निज स्यात्मनः अन्ति के समीपे आवासं निरन्तरवसतिं भजन्तीति तादृश्यो रणज्झणिति शब्दं कुर्वाणाः किङ्किण्यो लघुघुघुरिकास्तासां क्वणस्य शब्दस्य मिषेण कपटेन त्रिजगदङ्गिनां सुरासुरनराणां पुरः किम्। उत्प्रेक्ष्यते-इत्यमुना प्रकारेण विचिन्त्य विचार्य विमृश्य विचार कृत्वेव भाषते ब्रवीति । इति किम् । आकृतिराकार एव वपुः शरीरं यस्य तादृशः सन् अहं यस्य प्रभोर्महावीरस्य भगवतः पदं चरणं सदा सर्वकालं परिचरामि सेवे, तेन मत्स्वामिना मम प्रभुणा वीरेण खयमात्मनैवेदं पूर्वकाव्यप्रतिपादितं श्रीशजयमाहात्म्यं जगति विश्वे। . जगजनानामग्रे इत्यर्थः । प्रकाशितं प्रकटतया कथितम् । यस्मादिति गम्यं तस्मात्कार• णादहं तच्चरणपरिचारकः अस्य मद्वसतिभूमेस्तीर्थस्य लोकोत्तरपुण्यस्थानस्य प्रभावं महिमानं पटु स्पष्टं यथा स्यात्तथा प्रकटयामि प्रकटीकरोमि । किंवत् । गणिवत्। यथा गणधरो भगवतार्थात्प्रतिपादितं सूत्रं पटु सहेतु युक्तिकं विस्तारयति, तथा श्रीमन्महावीराहत्प्रकाशिनमहमपि विमलाचलस्याद्वैतमाहात्म्यं प्रकाशयामीत्यर्थः । इदं किम् । यद्यस्मात्कारणात् एतस्मिन्कलिकाले जगति विश्वेऽखिले । भरतक्षेत्रे इत्यर्थः । कश्चित्कोऽपि मुनिप्रमुखः उपलब्धिमान् मतिश्रुतावधिमनःपर्यवकेवलज्ञानयुक्तः पूर्ववच्चतुर्थारक इव न दृश्यते न चक्षुषा लक्ष्यते न च श्रवसा श्रूयते च । पुनर्जनानां भारतभूमिजन्मनां लोकानां संशयानां मानसिकानां शास्त्रसंबन्धिना वा संदेहानां छेदकृनिवारकः कोऽपि कश्चिदपि पूर्ववत्प्रदेशिराजस्य केशिगणधर इव नैव विभाव्यते नाकर्ण्यते च । च पुनर. धुना कोऽपि कश्चनापि शिवंगमी चरमशरीरत्वेन केवलज्ञानमासाद्य मोक्षं गमिष्यतीति । 'यथा विदूरादिरदूरतांगमी' इति नैषधे । तादृशोऽपि लोचनाभ्यां न विलोक्यते नापि च श्रुतेर्गोचरीक्रियते । तत्तस्मात्करणात् सांप्रतं पञ्चमे दुःखमानाम्नि अरके लोकोत्त्या कलिकाले च महिमसंपदा मानातीतमाहात्म्यसंपत्तीनां मही स्थानमाधारः । तथा महो. दयस्य राज्याद्वैताभ्युदयस्य मोक्षस्य च विधायकः । एकोऽद्वितीय एवायं न चापरः। अयं प्रत्यक्षलक्ष्यस्तथा निश्चयेनाचल: श्रीशजयशैल: निषेव्यतां सेवनीयत्वमर्हति योग्यो भवति । सर्वेषामपि भव्यानामयमेव सेवाया उचितोऽस्तीत्यर्थः ॥ त्रिभिविशेषकम् ॥
खमौज्झ्य भुवि निर्वृतौ गतमवेत्य सिंहध्वजं
यियासुरनु तं स्वयं व्यनिशसेविता स्नेहतः। इतः प्रचलितोऽम्बरोपगतचैत्यशृङ्गाध्वना
ध्वजाकगतकेसरी कलयति स्म लक्ष्मीमिह ॥ ७८ ॥ इह मूलप्रासादस्य शिखरे ध्वजस्य पताकाया अङ्के उत्सङ्गे गतः प्राप्तः स्थितो वा