________________
काव्यमाला।
सिद्धशैले प्रदातुमिच्छता पाणि ग्राहयितुं वाञ्छता धर्मनाना भूमीभृता राजा मणीनां रत्नानां चन्द्रकान्तादीनामुपलक्षणात्क:तनादीनां सुवर्णानां काञ्चनानां चित्राण्यालेख्यानि तेषां श्रिया अथ वा चित्रकारिण्या आश्चर्यविधायिन्या शोभयाश्चितः कलितः खयं. वरणमण्डपः खयं स्वेच्छया, न तु पित्रादिपारतत्रयात् , वरणमर्थात्खाभीप्सितवरयितुः कण्ठपीठे वरमालाक्षेपणेन खीकरणं यत्र तादृशो विधापितः किमु शिल्पिना निर्मा पित इव ॥
अवेत्य कलितौकस नभसि सिंहिकानन्दनं ___ वनान्मिलितुमागताः किमिह गोत्रहार्दादमी । यदाप्तगृहकंधरास्फुरदमानपञ्चाननाः
परां श्रियमशिश्रियन्नमृतकान्तिकान्तद्विषः ॥ ६४ ॥ यस्य विमलाचलशिखरिशेखरस्याप्तगृहस्य जैनप्रासादस्य कंधरायां शिखरोपत्यकायां स्फुरन्तो दृश्यमानाः शोभमाना वा अमानाः प्रमाणातीता: अतिबहवो ये. पञ्चानना मृगेन्द्राः। यदनेककसौधकंधराहरिभिः कुक्षिगतीकृता इव' इति नैषधेऽपि । परां प्रकृष्टां श्रियं शोभामशिश्रियन् लभन्ते स्म। किंभूताः । अमृतकान्तिकान्ताश्चन्द्रमणयस्तेषां द्विषः श्वेतमविभ्रमवैरिणः । उत्प्रेक्ष्यते-नभसि आकाशे कलितौकसं निर्मितनिकेतनम् । गगनस्थायिनमित्यर्थः । सिंहिकानन्दनं खर्भाणुं केसरिणं वा अवेत्य ज्ञात्वा गोत्रस्य ज्ञातेर्हार्दात् । स्नेहला हि खजनाः खजनं प्रस्तावे मिलितुमायान्त्येवेति प्रथमव्यवहारतः वनात्खकाननात्सकाशात् अमी प्रत्यक्षलक्ष्याः पारीन्द्राः मिलितुं मिलनार्थमिह प्रासादोपरितनप्रदेशे आगताः समेता इव ॥
वने वसंतिरेकिका जनुषि नः प्रसूतिः परि
च्छदो न कदनं सदा पुनरनेकपानां हहा। जहीत्यसुखमाशु नः किमिति भाषितुं नामिजं
भजन्ति गृहकंधरागतमृगेश्वराः श्रीजिनम् ॥ १५॥ . गृहकंधरायामाजिनसदनशिखरोपत्यकायां गताः शिल्पेन स्थिताः मृगेश्वराः केस. रिणः नाभेर्नानो नृपाज्जायते स्म इति नाभिजः अथ च नाभेस्तुन्दकूपिकाया जायते स्मेति नारायणनाभिपुण्डरीकोत्पन्न ब्रह्माणं श्रिया अतिशयलक्ष्म्या युक्तो जिनस्तीर्थकृत्तं तथा श्रिया समुद्रनन्दिन्या युतो जिनो नारायणस्तं भजन्ते सेवन्ते । इत्यमुना प्रकारेण नोऽस्माकमसुखं दुःखं जहि घातय । इति किम् । हे जगन्नाथ, नोऽस्माकं वसतिवासो वने न च नगरादौ । पुनर्जनुषि अखिलेऽप्यवतारे एकैव प्रसूतिः संतानमेकमेव नान्यत् । 'एकेनापि सुपुत्रेण सिंही खपिति निर्भयम्' इति वचनात् । पुनः परिच्छदः परिवारोऽपि न खवपुःसहायत्वमेव । पुनर्हहा इति खेदे । सदा सर्वकालमपि अनेका