________________
१६ सर्गः] हीरसौभाग्यम् ।
०९ विमुच्य मृडमद्रिजापरिभवेन सापन्यतः
किमम्बरतरङ्गिणीं विदधतीं विरक्तेस्तपः ॥ १२ ॥ मलीमसजनाप्लवैर्निजमपावनीभावुकं
पवित्रयितुमीयुषी किमथ वात्र शंजये । मुरारिमथनोदितस्वतनुजादिविश्लेषजा
सुखादुत सुधाम्बुधिः किमु तनोति तीर्थे तपः ॥ ५३ ॥ अयं सूरिर्वरणस्य प्राकारस्य गोपुरं प्रतोली तस्याभ्यन्तरे मध्ये स्फुरद्भिः करैः किरणैः कृत्वा तरङ्गाः कल्लोलाः संजाता अस्यामिति तरङ्गिता तादृशीं तथा स्फटिकैः श्वेतरत्नैः कल्पिता निर्मितामारोहणानां सोपानानामावली श्रेणीममार्गयत्पश्यति स्म । 'मार्गयति मृगयतेऽपि च मार्गति चेत्याहुरीक्षार्थे' इति क्रियाकलापे । उत्प्रेक्ष्यते-समान एकः पतिर्यस्याः सापत्नी तस्याः भावः सापत्न्यं ततः कारणादद्रिजायाः पार्वत्याः परिभवेन संतापेन । उद्विनेत्यध्याहार्यम् । मृडमीश्वरं विमुच्य त्यक्त्वा विरक्तेर्वैराग्यात्तपो विदधतीं तीर्थे तपस्यन्तीमम्बरतरङ्गिणीं गङ्गामिव । अथ वा पुनरुत्प्रेक्ष्यते-मलीमसा जात्या अन्त्यजाः कर्मणा महाक्रूरकर्माणो जीवादिघातनान्महापापिनो मलिनजनास्तेषामाप्लवैः स्नानकरणादिभिः कृत्वा अपावनीभावुकमपवित्रीभवनशीलं निजमात्मानं पवित्रयितुं पावनीकर्तुम् । तीर्थसेवया इत्यध्याहार्यम् । अस्मिन् सर्वतीर्थाधिराजे सौराष्ट्रमण्डलकमलाचूडामणौ श्रीशत्रुजये ईयुषी समागतवती किमु । अर्थात्पूर्वप्रतिपादिता गङ्गेव वा । उताथ वा मुरारिणा नारायणेन यन्मथनं मन्दरगिरिणा कृत्वा आमूलाद्विलोडनं तस्मादुदितः प्रादुर्भूतो यः खस्य क्षीरसमुद्रस्यात्मनः तनुजानां 'लक्ष्मीः कौस्तुभपारिजातकसुरा धन्वन्तरिश्चन्द्रमाः धेनुः कामदुधा सुरेश्वरगजो रम्भादिदेवाङ्गना । अश्वः सप्तमुखोऽमृतं हरिधनुः शङ्खो विषं चाम्बुधे रत्नानीति चतुर्दशापि कविभिः संकीर्तितानि स्फुटम् ॥' एषां चतुर्दशानां मध्ये केचित्पुत्रा आदिशब्दात्काश्चित्पुञ्चस्तासां विश्लेषो वियोगः तस्माजातं यदसुखं सुखादन्यत् विरुद्धं वा सुखस्याभावो वासुखम् । तदन्यत्तद्विरुद्धसदभावेषु नो वर्तमानखात् त्रयोऽप्यर्थाः संगच्छन्ते' इति सारखतव्याकरणानुसारिवचः । एतावता दुःखं तस्मात्कारणात्सुधाम्बुधिः क्षीरसमुद्रो महानन्दपदप्रापकास्पदेऽत्र शत्रुजयतीर्थे तपस्तनोति किनु । अशनादित्यागलक्षणं नियमविशेषं करोतीव ॥ युग्मम् ॥ इति सर्वाभ्यन्तरप्राकारप्रतोलीसोपानानि ॥
स हीरविजयप्रभुर्वरणगोपुरं प्राविश___ प्रवेशनमिवर्षभध्वजजिनावनीवज्रिणः । सुराम्बुधिवधूप्लवेऽम्बुजपरागपिङ्गीभव
त्सितच्छद इव व्यभासत ततोऽस्य सोपानके ॥ १४ ॥
१०२