________________
१६ सर्गः] हीरसौभाग्यम् ।
७८९ तत्सहिता इत्यर्थः । तुरङ्गा अश्वास्तथा शिबिका याप्ययानानि 'पालखी' इति प्रसिद्धाः मुखानि येषु तादृशानि प्रमुखानि प्रकृष्टानि यानानि वाहनानि भजन्ते संश्रयन्ते इति ॥
अगाधभववारिधेरभिलषद्भिरेतुं बहिः. ___ समुद्धरणधुर्यतां प्रदधदन्तरीपं किमु । व्रजद्भिरिह यात्रिकैः प्रति सहस्रपत्राचलं
तदा विदधिरेऽखिला अपि निजावशेषा दिशः ॥ १० ॥ ___ तदा हीरविजयसूरियात्रासमये इह जगति सहस्रपत्राचलं शत्रुजयशैलोच्चयं प्रति व्रजद्भिः प्रतिष्टमानैयांत्रिकर्यात्राकारकैलॊकैरखिलाः समस्ता अपि दिशः हरितः निज आत्मा एव अवशेषोऽवशिष्टो यासां तादृश्यो विदधिरे विहिताः। दिशः केवलं स्वयमेव स्थिताः, जनास्तु सर्वेऽपि प्रस्थिता इत्यर्थः । यात्रिकैः किं कुर्वद्भिः । अगाधोऽलब्धमध्यपूर्वपरपारो यो भवः संसारः स एव वारिधिः समुद्रस्तस्मादहिः पारे मोक्षलक्षणे बाह्यप्रदेशे एतुमागन्तुमभिलषद्भिर्वाञ्छद्भिः । अत एवोत्प्रेक्ष्यते-समुद्धरणे भवसमुद्रमध्ये मज्जतां जन्तूनां सम्यगुद्धारकरणे धुर्यतां प्रकृष्टधौरेयतां प्रदधत् प्रकर्षेण धारयत् । अत एवान्तरीपं किमु अन्तर्जले तटमिव ॥
महोदयविधायिना विमलभूभृताहूतव- त्स कोऽप्यननि नो जनोऽगमि न येन यात्राकृते । न काचिदचलाभवत्पथि च या न तद्यात्रिकै
रनीयत पवित्रतां त्रिपथगाप्रवाहैरिव ॥ ११ ॥ स कोऽपि तत्तदुत्तमजातिजनितः कश्चिदनिर्दिष्टनामा जनो लोको नाजनि नो संजातः । स कः । येन जनेन यात्राकृते शत्रुजययात्रार्थ नागमि नागतम् । किंवत् । विमलभूभृता शत्रुजयशैलेनाहूतवदाकारितेनेव । 'निहोत्रो' इति लोकप्रसिया । यथा कश्चित्संमानपूर्वकमाकारित आगच्छति । किंभूतेन विमलाद्रिणा । महोदयो मोक्षः महान् त्रिभुवनजनतानिषेव्यलक्षणोऽभ्युदयस्तं विदधाति करोतीत्येवंशीलेन च पुनः सा काचिदचला पृथिवी नाभवन्न बभूव । याचला पथि मार्गे तद्यात्रिकैः शत्रुजययात्राकारकैः पवित्रतां पावनीभावं नानीयत न प्रापिता। कैरिव । त्रिपथगाप्रवाहैरिव । यथा गङ्गाया ओघैः सहस्रसंख्याभिर्वेगिभिः पयःपूरैः पवित्रतां नीयते प्राप्यते ॥
शिवश्रिय इवावनीवलयशालिलीलाचलं
जनैः प्रचलितैः समं परिजनेन शत्रुजयम् । स्ववर्तिविविधासुमत्प्रकरकीलनाविश्रमा
द्दधुः सुखमिहाखिला अपि दिशां प्रदेशास्तदा ॥ १२ ॥