________________
१ सर्गः] . हीरसौमाग्यम् ।
२१ मणीनां विविधरनानां गुम्फो रचना गर्ने मध्ये यस्य । तथा नीली । लोक 'गुली' इति प्रसिद्धा । तद्वन्नीलो हरितवर्णो निचोलः । असौ कक्षुक इव ॥
कैदारिकं वापि समञ्जरीकशालि व्यलासीन्नदसंनिधाने । रोमावली नाभिविभासिमध्यदेशे किमेषा विषयेन्दिरायाः ॥१०॥ यत्र क्वापि कस्मिन्नपि प्रदेशे समञ्जरीकाः कलिकाकलिताः शालयो यत्र तत्तथोक्तं कैदारिक केदारवारो नदसंनिधाने द्रह(हृद)संनिधाने व्यलासीद्विलसति स्म । किमुत्तेक्ष्यते-विषयेन्दिरायाः देशश्रियाः नामिना तुन्दकूपिकया। नाभिशब्दः पुंस्त्रियोः । वि. भासिनि शोभनशीले मध्यदेशे उदरे । एषा प्रत्यक्षलक्षा रोमावली लोमलेखेव ॥
उत्तालतालं करतालिकाभिः सृजन्ति गीतीरिह शालिगोप्यः। श्रिया समग्रान्विषयान्विजित्य कीर्तीः स्थितानामिह गुर्जराणाम् ॥६॥ इह गुर्जरदेशे उत्तालतालमुत्तालास्वरितवादिनस्ताला यत्रैवं यथा स्यात्तथेति क्रियाविशेषणम् । करतालिकाभिहस्ततालाहतिध्वनितैः । शालीनां कमलक्षेत्राणां गोप्यो र क्षिका गीतीर्मधुरध्वनितालापगानानि मुजन्ति कुर्वन्ति । इवोत्प्रेक्षते-श्रिया सर्वातिशयिलक्ष्म्या समग्रान् भूमीमण्डलवर्तिसमस्तान् विषयान् मण्डलान् विजित्य स्थितानामेकस्थानस्थायुकानां गुर्जराणां गूर्जरनामदेशानाम् । देशानामसे बहुत्वमेव वाच्यम् । कीर्तीर्यशांसीव गायन्ति ॥ इति केदाराः ॥ कुत्रापि दम्यैरनुगम्यमानाः सरिद्वरायाः सखितां दधानाः । यद्गोचरद्रोणदुघाश्चरन्ति मूर्ताः समाज्ञा इव मण्डलस्य ॥ १२ ॥ कुत्रापि कस्मिन्नपि स्थाने वचन गुर्जरदेशप्रदेशे यस्य देशस्य गोचरे गवां चरणस्थाने। द्रोणपरिमाणं दुग्धमासामिति द्रोणदुघा गावश्चरन्ति । 'चर गतिभक्षणयोः' अयं प्रयोगः । तृणादि भक्षयन्ति । गावः किं क्रियमाणाः। दम्यैर्वत्सतरैरनुगम्यमानाः । स्वप्रौढवत्ससहिता इत्यर्थः । पुनः किं कुर्वाणाः । सरिद्वराया गङ्गायाः सखितां श्वेत्यात्सादृश्यं दधाना बि. भ्रत्यः । इवोत्प्रेक्ष्यते-मण्डलस्य गुर्जरदेशस्य मूर्ताः शरीरसंयुक्ताः समाज्ञाः कीर्तय इव ॥
गावः क्वचिद्भान्ति सुधामुधाकृत्पयःस्रवन्त्यः प्रविभाव्य वत्सान् । यदीय॑या निष्ठितनाकभाग्यैरिवावतीर्णा भुवि देवगावः ॥ १३ ॥ क्वचित् प्रदेशे गावो धेनवो भान्ति । किं कुर्वत्यः । सुधां पीयूषं मुधा स्वमाधुर्यातिशयानिष्फलां करोति तादृशं पयो दुग्धं सवन्त्यः । किं कृत्वा । वत्सांस्तर्णकानात्मनीयवत्सरूपाणि प्रविभाव्य दृष्ट्वा । इवोत्प्रेक्ष्यते-यदीर्घ्यया गुर्जरदेशेन सममरूपया। ईयॊद्भुतपापेनेति शेषः । निष्टितेः समप्रभुक्त्या अतिदुरितोदयेन वा क्षीणे कस्य सर्लोकस्य भाग्यः पुण्यैः भुवि क्षोण्यामुळमवतीर्णाः समागता देवगावः कामधेनव इव ॥