________________
१५ सर्गः] हीरसौभाग्यम् ।
७५५ निजमखिलमसातं हातुमब्दैः समेत्या
निशनिवसनदम्भात्किं तपस्तप्यतेऽस्मिन् ॥ १३ ॥ अब्दै,धैः समेत्य अत्रागत्य अनिशं निरन्तरं यन्निवसनं निवास: स्थितिकरणम् । वर्षानन्तरं हि वारिदाः क्वापि गिरौ वसन्तीति कविसमयः । तस्य दम्भात्कपटात् । उत्प्रेक्ष्यते-अस्मिन् शत्रुजये तप उपवसनादि तप्यते किं क्रियत इव । किं कर्तुम् । . निजमात्मीयमखिलं समस्तमप्यसातं दुःखं हातुम् । 'ओहाक त्यागे' इत्यस्य प्रयोगः । त्यक्तम् । किंभूतमसातम् । जडिमानं जायमज्ञानं डलयोरैक्यात् जलमयतां जडाशयताम्, तथा शितिमानं निन्द्यकृष्णभावम् , तथा वर्षायुष्कं वर्षाकाले यावजीवितव्यताम् । 'शरद्धनात्ययः' इति वचनात् । तथा लोलखभावतामस्थिरत्वं चञ्चलाशयत्वम् । यदुक्तम्-'क्षारोवारिनिधिः कलङ्ककलुषश्चन्द्रो रविस्तापकृत्पर्जन्यश्चपलाशयः खयमिहादृदयः सुवर्णाचल: । काष्टं कल्पतरुषत्सुरमणिः खर्धामधेनुः पशुः.............."त. स्केन साम्यं संताम् ॥' इति लोकोकेः । तथा उद्भुरा उत्कटा प्रबला ये समिराः पवनास्तैः सह विरोधो वैरम् । यदुतम्-'सजन सावन मेहज्यूं उन्नहिए गहगह । पिशुनपचनभइसंचरे मारिकिएदहव ॥' इति । पुनरप्युक्तम्-'विलपति कृषा सारङ्गोऽयं न्वमुन्नतिमानहो जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः । उपकृतिकृते प्रहं चेतः कुरुष्व यदग्रतो भ्रमति पवनः कस्त्वं कोऽयं व ते जलबिन्दवः ॥' तथा 'अहह "समीरण दारुण किमिदमाचरितं चरितं त्वया । यदिह चातकचञ्चपुटोदरे पतति वारि तदेव निवारितम् ॥' इत्यपि सूक्तोक्तेः। समुद्रात्सकाशादभ्यर्थना प्रतिवर्षपानीययाच्या परस्मा. दभ्यर्थदानम् । यदुक्तम्-'अव्दैर्वारिजिघृक्षयार्णवगतैः साकं वजन्ती मुहुः' इति खण्डप्रशस्तौ । तथा मेघा हि समुद्रात्सलिलं याचित्वा भूमण्डले वर्षन्तीति जनश्रुतिः । एते प्रकारा आद्याः प्रथमा यत्र तत् ॥
त्रिदिवसदनमार्गोत्सङ्गरङ्गत्तरङ्गै
मणिचितचयचञ्चद्रोचिषां संचयैर्यः । धुनिशमिह निजाङ्कस्थायुकानां चिकीर्षुः
किमु शरणधुरीणः शाश्वतं सुप्रभातम् ॥ १४ ॥ यः शत्रंजयाद्रिमणिभिराभङ्करप्रभङ्करादिरनश्चितो व्याप्तो रत्ननिर्मितो यश्चयो वप्रः प्राकारस्तस्य चञ्चतां दीप्यमानानां रोचिषां कान्तीनां संचयैः संदोहैः कृत्वा । उत्प्रेक्ष्यतेइह विश्वे युनिशं नित्यं निजस्यात्मनः अङ्के उत्सङ्गे खसमीपे वा स्थायुकानां निवसनशीलानां खापत्यानामिव भविकजनानां शाश्वतमनश्वरं सुप्रभातं शोभनालोकं सिद्ध. शैलत्वाच्चिकीर्षुः कर्तुमिच्छुरिव । किंभूतैः संचयैः । त्रिदेवे खर्गे सदनं गृहम्, अथ वा त्रिदिवं चौरेव सदनं येषां ते देवास्तेषां मार्ग: पन्था आकाशस्तस्योत्सङ्गे कोडे र.