________________
७४२
काव्यमाला।
साहिपायें संस्थानोः स्थितवतोऽपि भानुचन्द्र इत्यभिधा नाम यस्य तादृशस्य प्राज्ञेन्दो. विबुधविधोः प्रज्ञांशस्य वाचक इत्याह्वयं नाम यस्य तादृशं पदम् । उपाध्यायपदमित्यर्थः । दत्ते स्म । कया । वाचा । कथमेव । वननमात्रेणेव न तु वासक्षेमपूर्वमिति । क इव । प्रोद्यत्पार्वणशर्वरीवरयितेव । यथा उदयं प्राप्नुवन् पूर्णिमासंवन्धी शर्वया निशाया वरयिता भर्ता अतिशयेन दूरतोऽपि भूमण्डलकमलाकरमध्ये गगनापेक्षया क्षोणी दूरस्थायिनी। कुमुदां कैरवाणां पतेः श्रेण्या ज्योत्स्नया चन्द्रिकयेव प्रोज्जृम्भतावैभवं विकाशभावलक्ष्मी दत्ते ॥ इति भानुचन्द्रस्योपाध्यायपदम् ॥ विजयसेनविभोर्हदि दर्शनं वसुमतीकमिता चकमे क्रमात् । . विदलिताखिललोकतमस्ततेः शुचिरुचेश्चलचञ्चुरिवाचिरात् ॥ २८७ ॥ क्रमादनुक्रमेण हीरविजयसूरिभ्यां भानुचन्द्रस्य वाचकपदं प्रदत्तं तदाकर्णनानन्तरं वसुमतीकमिता भूमीपतिरकब्बरसाहिः हृदि मनोमध्ये विजयसेननाम्रो विभागुरोर्दर्शनं । चकमे कासति स्म । क इव । चलचञ्चुरिव । यथा चकोरः शुचिरुचेश्चन्द्रमसो दर्शनं कामयते । किंभूतस्य विजयसेनविभोः शुचिरुचेश्च । विदलितानि अखिललोकस्य समस्तजगतः सर्वभविकानां च तमसामज्ञानानामन्धकाराणां च ततिः पतियेन ॥
प्रैषीत्ततः प्रेष्ययुगं सलेखमानेतुमाचार्यसुधामरीचिम् । ' अकबरः सिन्धुमिवात्र चक्री सुमित्रभूः सुस्थितभादितेयम् ॥२८८॥ ततो दर्शनाकाङ्क्षानन्तरं अकव्वरः पातिसाहिः आचार्यसुधामरीचि विजयसेनसूरीन्दु. मानेतुं खदेशे समाकारयितुं सह लेखेन फुरमानेन वर्तते यत्तत्सलेखं प्रेष्ययुगं मेवडाद्वन्द्वं प्रेषीत्प्रस्थापयति स्म । क इव । सुमित्रभूरिव । यथा सगरचक्रवतो सिन्धुं समुद्रमानेतुं लवणसमुद्राधिष्ठायकं सुस्थितनामानमादितेयं देवं प्रेषयति स्म ॥ लेखं न्यासमिवार्पितं क्षितिपतेर्दूतद्वयेनादरा
दादायाथ विभाव्य तस्य बुबुधे हाद मुनीन्द्रोऽखिलम् । । द्रष्टुं कासति मामिवैष कथमप्याचार्यमप्यात्मना ___संतयेति ततो न्यवेदयदनूचानाय सर्व स तत् ॥ २८९॥ मुनीन्द्रो हीरविजयसूरिस्तस्य फुरमानरूपलेखस्य अखिलं ममग्रं हार्द रहस्यं बुबुधे जानाति स्म । किं कृत्वा। विभाव्यावलोक्य । कथम् । अथ पश्चात् । किं कृत्वा । आदराद्वहुमानादादाय गृहीत्वा । कम् । लेखं फुरमानम् । कमिव । न्यासमिव निक्षेपमिव । यथा 'पणि' इति लोकप्रसिद्धया । किंभूतं लेखम् । क्षितिपतेरकव्बरसाहेर्दूतद्वयेन मेवडायामलेम संदेशहारकयुगलेन अर्पितं खस्य प्रदत्तम् । ततो लेखादानवाचनरहस्यज्ञानानन्तरं स सूरिस्तत्सर्व भूपाकारणवाचिकमनूचानाय विजयसेनमूरये न्यवेदयत्कथयांचकार । किं कृत्वा । इत्यमुना प्रकारेण संतमं विचार्य । इति किम् । यदेष पातिसाहिः कथमपि