________________
७२६
काव्यमाला।
हन्ता घातयिता[स्ते] विवृद्धव्यसनवशंवदानां कृत्याकृत्यविवेको न भवत्येव । उत्प्रेक्ष्यतेकीलालेषु रुधिरेषु लोलुपो लम्पटो लुब्ध आशयो मनो येषां तत्तयेव रुधिरपानलुब्धमनस्त्वेनेव । 'कीलालं रुधिरे जले' इत्यनेकार्थः । तत्त्वतस्तु जलचरत्वेन जले एव लोलुपाशयाः । ततस्ते नकाद्या जलयादोवजा अपि निजदयिताः खखप्रियाः प्रति इत्याख्यन् इदमाचख्युः । हे प्रियाः, स मापतिर्नुप: जन्तूनां प्राणभृतां पितामहः पितृपिता भवन् सन् जन्तून् सर्वसत्त्वान् नृप्तवद्गोपायति रक्षति । किंभूतः । करुणा जगजन्तूपरि कृपा तस्याः कल्लोलिनीवल्लभो नदीनायकः समुद्रः । किंवत् । वज्रबाहुनृपवत् श्रीशान्तिनाथपूर्वजन्मवज्रबाहुमहीपतिरिव । पारापतप्रमुखाननेकसत्त्वान् । तथा सूरिगिरा इत्यध्याहारादयमासीदिति ॥ इति नक्रादिजलजन्तुमिथुनालापः । इति जलचराः ॥
चौलुक्यावनिजानिनेव निखिलेऽकूपारकाञ्चीतले __ श्रुत्वा प्राणिगणैरमारिमवनीकान्तेन संकल्पिताम् । गर्जन्तीह गजा हसन्ति हरिणाः कूर्दन्त्यथो कासरा
हृष्यन्ति द्विरदद्विषः सुखमधुर्वाघीणसद्वीपिनः ॥ २४१ ॥ केकायन्ते कलितललनाकेलयो नीलकण्ठा
माकन्दस्था विदधति पिकाः पञ्चमालापलीलाम् । शब्दायन्ते शिखरिशिखरस्थायुकास्ताम्रचूडाः
कीरा धीरा इव तरुशिरस्यन्वतिष्ठंश्च गोष्ठीः ॥ २४२ ॥ प्रीतिप्रहां रमयति रहः खां चकोरी चकोर
श्वेरुः स्वैरं गृहबलिभुजः खञ्जनाः खे विलेसुः । लीलायन्ते धवलगरुतः प्रोच्छलन्ति स्म मत्स्या
विश्वस्यासन्निव सुखमया वासरास्ते तदानीम् ॥ २४३ ॥ चौलुक्यावनिजानिना कुमारपालभूपालेनेव निखिले समग्रे अकुपारः समुद्रः स एव काची मेखला यस्यास्तस्याः तले। भूमण्डले इत्यर्थः । अवनीकान्तेनाकब्बरेण संकल्पिता प्रवर्तिताममारिं जीवदयां श्रुत्वा निशम्य इह जगति गजाः सर्वेऽपि वन्यचारिणः गर्जन्ति सजलजलधरवद्गम्भीरधीरंगारवं कुर्वन्ति । पुनर्हरिणा हर्षेण हसन्ति मिथो हास्यं कुर्वन्ति । अथ पुनः कासरा महिषाः कूर्दन्ति नभसि फालां ददते। च पुनर्द्विरदद्विषः केसरिणः हृष्यन्ति उदुषितकेसरसटाटोपः प्रमोदमेदुरी । पुनर्वाघ्रीणसाः खगिणो 'गांडां सावज' इति प्रसिद्धाः। तथा द्वीपिनो व्याघ्राः चित्रकाया वा । तथा गिरिनारिगिरिगहने व्याघ्रीचित्रकचित्रकीव्याघ्राणां च संयोगे जायमानास्तत्र 'दीपडाः' इति प्रसिद्धाः सुखं सातमधुर्बिभ्रति स्म । सातेन शेरते इत्यर्थः । पुनः कलिता निर्मिता