________________
१४ सर्गः ]
हीर सौभाग्यम् ।
७२३
जीवितवल्लभे द्वन्द्वचार चक्रवाकि, कृपावान् श्रीहीरसूरीन्द्रधर्मोपदेशश्रवणात् कृपाक'लितचेतोभूतः स नृपोऽकब्बर साहिः मां नैव हन्ति निशुम्भति । अहमेवं जाने वेद्मि । उत्प्रेक्ष्यते इत्यर्थे जाने । निजयौवतस्य स्वतरुणरमणीगणस्य रतस्य संभोगस्यानन्दमयसमयत्वादुत्सव इवोत्सवः तत्रोच्च्वासितः उच्चैः कृतो हृदयादुत्तार्यान्यत्र क्षिप्तो वा कञ्चुको निचोलो येभ्यस्तादृशेषु कुचेषु पीनप्रोत्तुङ्गपयोधरेषु संचारिता संक्रामिता चित्तवृत्तिरन्तःकरणव्यापारो वर्तनं वा येन तादृश इव । विगलन्निचोलचारुलोचनोच्चकुचकलशस्मरणात्तत्तुल्यत्वेनास्मान्नायं निहन्तीत्यर्थः । जाने ज्ञानार्थे इवार्थे वा ॥ इति चक्रवाकमिथुनालापः ॥
प्रियाश्चकोरानपि खञ्जरीटान्वदन्त्यदस्तिष्ठथ किं सुखेन ।
पुरा हि बध्नाति वधूविलोचनश्रियोऽधमर्णान्भवतो यतो नृपः ॥ २३३ ॥ चकोरान् ज्योत्स्नाप्रियान् खञ्जरीटान् खञ्जनान् प्रति प्रियास्तेषामङ्गनाः चकोर्यः तथा खञ्जरीटचटुललोचना: अद एतद्वदन्ति निर्दिशन्ति कथयन्ति । तदेवाह - हे प्रियाः, सुखेन शर्मणा निश्चिन्ततया वा किं कथं प्रश्ने तिष्ठथ वसथ वा स्थिता वा । यतः कारणाद · धूनां निजयुवतीनां विलोचनानां चारुचञ्चलविचित्रनेत्राणां श्रियो लक्ष्म्या अधमर्णान् ग्राहकान् भवतो युष्मान् नीतिनिपुणो नृपोऽसौ पुरा बध्नाति वत्स्यति बन्धं प्रापयिष्यति गृहीतं पश्चादददानोऽधमर्णः समर्थेन उत्तमर्णेनावश्यं निगृह्यते इति लोकव्यवहारः ॥
इत्थममी प्रति दयिताः प्रोचुर्मा स्म भयं मनसापि जिहीध्वम् । येन सपक्षतयेव न पश्येत्सूरिगिराभिमुखं नृपतिर्नः ॥ २३४ ॥
· अमी चकोरखञ्जरीटाः पतत्रिणः दयिताः स्वस्वप्रियाः प्रति इत्थममुना प्रकारेण प्रोचुर्व्याचक्षते स्म । इत्थं कथम् । हे कान्ताः, यूयं मनसापि स्वचित्तेनांशमात्रमपि भयं साध्वसं मा स्म जिद्दीध्वं मा गच्छत । येन कारणेन सूरिगिरा गुरोर्दयोपदेशप्रदानश्रवणेन नृपतिर्नास्माकमभिमुखं कुदृष्टया घातवार्ता तु दूरे तिष्ठतु विरुद्धदृशापि संमुखं . पश्येन्नावलोकयेत् । उत्प्रेक्ष्यते - सपक्षतयेव सह पक्षेण परिवारेण वर्तन्ते ये ते सपक्षास्तत्तथा । 'जे परिवारइ अग्गला ते गञ्जणां न जाइ' इति वचनात् । पक्षैः पक्षकक्षाकारिभिर्मित्रादिभिर्वा वर्तन्ते ये अथवा समानः पक्षो गोत्रं येषां ते सगोत्राः । ' पक्षो गोत्रे परीवारे पक्षतौ च' इत्यनेकार्थः । तेषां भावः सपक्षता तया पक्षयुक्तत्वेन एकगोत्रत्वेन वा । बहुपक्षो हन्तुमशक्य एकपक्षश्च हन्तुमयुक्तः ॥ इति चकोरखञ्जनमिथुनालापाः । इति खचराः ॥
न्यगददनिमिषीनं मीनमेतत्किमु रमसे रमणीसखः सुखेन । अनय नयपयोधिपारदृश्वा किमु कुलवैरितया हनिष्यति त्वाम् ॥२३५॥