________________
७१८
काव्यमाला। सिंहोऽप्याख्यत्कुरु मा भीरु भीतिं नायं हन्ति व्रतिशार्दूलशास्त्या ।
यद्वा शौर्यादलितद्वेषिनागान्हन्यादुच्चैःशिरसः संश्रितान्कः ॥ २१९॥ _सिंहः कण्ठीरवोऽपि आख्यद्वभाषे । हे भीरु हे कान्ते केसरिणि, त्वं भीतिमातङ्क मा कुरु । 'पिब वोदच चारुलोचने यदतीतं वरगात्रि तद्गतम् । न हि भीरु गतं निवर्तते समुदायमात्रमिदं कलेवरम्(2) ॥ इत्युत्तराध्ययनवृत्तौ। यस्माद्धेतोतिशार्दूलस्य मुनिपञ्चा. ननस्य हीरगुरोः शास्त्या आज्ञया शिक्षया वा अयं साहिः अस्मान हन्ति न घांतयति। यद्वा अथ वा वधविधानाभावे हेतुमप्याह-शौर्यानिजशूरत्वेन दलिता व्यापादिता द्वेषिषु विपक्षेषु नागा मुख्या ये द्वेषिणो निजनिकृन्तनजनितामितद्वेषित्वेन वैरिणो नागा हस्तिनो यैस्तान् तथा उच्चैःशिरसो महात्मनो महधिकान्वा पर्वतांश्च तुङ्गशृङ्गान् शैलांश्च संश्रितान् पृष्ठलग्नान् सेवमानान् वा को हन्यात्कोऽपि व्यापादयेत् । अपि न कोऽपि । यदुकं भक्तामरस्तवे-'हरिणाधिपोऽपि नाकामति क्रमयुगांचलसंत्रितं ते ॥
वपुषा कुरुषे किमभ्यसूयां स्मयमानासनशाखिशाखया त्वम् । किमवैषि न भूवृषैति हन्तुं दयितं द्वीपिनमित्युवाच काचित् ॥२२०॥ काचिद्याघ्री दयितं स्खभर्तारं द्वीपिनं व्याघ्रमित्युवाच इति जजल्प । इति किम् । हे नाथ द्वीपिन् , स्मयमाना विकसन्तो ये असनशाखिनः पीतसाला 'वीउ' इति नाम्ना सिद्धास्तरवस्तेषां शाखया सह वपुषा खशरीरेण किमभ्यसूयामीयों कुरुषे । असनशाखानां व्याघ्रस्य तुल्यत्वेनोपमानं दृश्यते । यथा रघुवंशे-'व्याघ्रानभी । फुल्लासना. प्रविटपानिव' इति । किमिति प्रश्ने । हे द्वीपिन् , त्वं किं नावैषि न जानासि । यत्काररणाद्भवृषा पृथ्वीपुरंदरः साहिस्त्वां हन्तुमेत्यागच्छति ॥
रमस्व ससुखं योषे यदस्मान्न हन्ति यतिजम्भारेगिरा सः। मुदा पिबति यन्मां पुण्डरीकं सुदृष्टिरिव शैलं पुण्डरीकम् ॥ २२१ ॥ व्याघ्रीपतिरपि खां द्वीपिनीं प्रियां प्रत्युवाचेति संबन्धः । हे योषे द्वीपिनि व्याधि, सह सुखेन वर्तते यत्तत्ससुखं सौख्यसहितं यथा स्यात्तथा रमख स्वेच्छया मया सह विलासं विधेहि । यत्कारणात्सोऽकबरसाहिः यतिजम्भारेर्मुनिमघोनः गिरा वाचा अस्मानात्मनां यावज्जाती हन्ति न हिनस्ति । हे व्याघ्रि कान्ते, असौ क्षोणीन्द्रः तत्सूरिवाक्प्रपश्चैककारणान्मां पुण्डरीकं मुदा हर्षेण मच्चेष्टाशौर्याद्यवेक्षणोद्भुतप्रमोदेन पिबति । अथ वा गर्भितोपमा । पुण्डरीकमिव सिताम्भोजमिव अग्निदिग्गजमिव स्मि. तसहकारमिव वा इक्षुविशेषमिव वा ऋषभखामिप्रथमगणधरमिव वा भव्यः सादरं पश्यति । 'पुण्डरीकं सिताम्बुजे सितच्छत्रे च भेषजे।' 'पुण्डरीकोऽग्निदिग्गजे सहकारे णधरे राजलाहौ जगखरे गजज्वरेऽपि प्रत्यन्तरे' इत्यवचूर्णौ । 'कौशिकान्तरे व्या '