________________
१४ सर्गः
हीरसौभाग्यम् । चतुरंग तुरंगजिम वंकापायठवंति ॥ इति । जात्यश्वा हि सदश्ववारे समारूढे मतिचञ्चलकुटिलगामिनो भवन्तीति ख्यातिः । पुनः किंभूताः । अमर्षणाः कोपनाः । कस्यापि वचनमानमपि न सहन्ते । अमर्षभाजः परोपरीया॑जुषः । तत्त्वार्थे कोपकलिताः । यदुक्तम्-'दुव्वलकन्नावंकमुह बहुभोअणा सरोस । जेता तुरियां होइ गुण ते ता नरवह दोस ॥' इत्युक्तः । सुप्तं निद्रां प्रमादमज्ञानं परोपकारादिकरणे निद्रां बिभ्रतीति।तत्त्वार्थे बहुप्रमिला रणतूररावाकर्णने जाप्रतीति जनप्रसिद्धिः । अतः कारणात्खलोपमाः सन्ति । च पुनः रथाः कामचारिणः अतिशयेन वाताधिकवेगेन चरन्ति प्रचलन्तीत्येवंशीलाः । के इव । खिड्गा इव । यथा विटाः कामं स्वेच्छया अथ वा कामेन कंदर्पचेष्टया मदविड्वलत्वेन वा चरन्ति व्यवहरन्तीत्येवंशीला भवन्ति । पुनः किंभूताः । स्वमात्मानं वहन्ति शुभस्थानं सुमार्ग वा नयन्तीति खवाहिनो वृषभास्तेषां बन्धविधायिनः योक्त(ग्य)बन्धकारिणः । तथा खिगा खवाहिनीमाजीविकादिकारिणां कुकर्मरतत्वेन बन्धबधाद्यवस्थायां खदानादिना मोचयितृणामपि ऋणप्रत्यर्पणानध्यवसायेन कथंचिदभ्याख्यानप्रदानादिना अनार्यत्वात्तेषां साधूनामुपकारिणामपि नियन्त्रणां निर्मापयन्तीत्येवंशीलाः ॥
अमी नृशंसाः परंघातिनः क्षितेः शतक्रतो शल्यजुषः पदातयः। इयं च लक्ष्मीः करिकर्णतालवच्चलानिलान्दोलितकेतुवत्पुनः ॥ १६८॥ हे क्षितेः शतक्रतो भूजम्भारे, अमी पदातयो नृशंसाः क्रूराः । तथा परान् शत्रून् खव्यतिरिक्तानन्यान्वा घातयन्तीत्येवंशीलाः । शल्यानि शस्त्राणि कुन्तान्वा । 'पर. स्परोल्लासितशल्यपल्लवे । मृषा मृधं सादिबले कुतूहलानलस्य नासीरगते वितेनतुः ॥' इति नैषधे । 'शल्यं शस्त्रं कुन्तश्च' इति तदृत्तिः । तथा समरावसरे शरीरान्तःप्रवि. टानि लोहशल्यानि वा । तथा रागद्वेषद्रोहादिशल्यानि वा जुषन्ते भजन्तीति शल्यजुषो वर्तन्ते । च पुनरियं लक्ष्मीः चला चपला वर्तते। किंवत् । करिणां दन्तिनां कर्णतालवत्। पुनरनिलेन प्रबलपवमानेनान्दोलितो वेल्लितस्तरलीकृतो यः केतुः प्रासादशिरःशिख- रस्थायुकध्वजस्तद्वत् ॥
इदं च राज्यं नरकप्रतिश्रुतेः सुभूमभूभर्तुरिवास्ति लग्नम् ।
परं पुनः कारणमस्ति संसृतेर्नभोम्बुदाम्भोऽङ्कुरसंततेरिव ॥ १६९ ॥ - हे नृप, च पुनरिदं श्रीमदादिमहामण्डलीकैः सम्राडिः भुज्यमानं राज्यं समादिगन्तभूमण्डलप्रभुता सुभूमनानो भूभर्तुर्भूमीसार्वभौमस्य चक्रवर्तिन इव नरकस्य सप्तमदुर्गतेः प्रतिश्रुतेरङ्गीकारस्य लग्नं प्रतिभूःसाक्षिकमिवास्ति । च पुनरिदं राज्यं राज्ञो भावो राज्यं भूपतित्वं संसहतेः संसारस्य परं प्रकृष्टं कारणं हेतुरस्ति । किमिव । नभोम्बुदाम्भ इव । यथा श्रवणवारि अङ्कुरसंतते/न्यतृणादिप्ररोहपरम्परायाः परमं कारणं विद्यते ॥
भवन्ति योग्या विभवा भवादृशां न काबिलक्ष्माधव मादृशां पुनः ।। यदन्तरायं प्रणयन्ति मुक्तिपूःप्रयायिनां दुःशकुना इवाङ्गिनाम् १७०