________________
काव्यमाला।
हृदा खमनसा कृत्वा हृदि सम्यग्विमृश्य सर्वं च श्रीमन्तो विदन्त्येव । यतः परमेश्वरत्वं ततः सर्वज्ञत्वमप्यास्ते तेन जानन्त्येव । पुनरावयोर्वचः साहिखरूपनिरूपणवचनं द्विरुक्तितुल्यं पुनर्भाषणसाधारणं केवलं पिष्टपेषणमेव ॥
स्ववत्तदादत्त समस्तपुस्तकं स्थितौ गदित्वेति पुरः प्रभोरुभौ । ततो विनेया अपि तद्वभाषिरे निवार्यते कैः स्वयमागतेन्दिरा ॥११२॥ उभौ शेखथानसिंहौ प्रभोहीरसूरेः पुरोऽग्रे इत्यमुना प्रकारेण गदित्वा स्थिती तूष्णीं . कृतवन्तौ इति पूर्वोक्तकारणात्ववदात्मीयमिव समस्तपुस्तकमादत्त ग्रहयताम् । ततस्त. योरुक्केरनु पश्चात् विनेया हीरसूरिशिष्याः वाचकविचक्षणगणिप्रमुखा गीतार्थी अपि शेखथानसिंहकथितं स्वीकारयोग्यमास्ते तद्गह्यतामिति तत्तदुक्तमेव बभाषिरे प्रोचुः ।. युक्तोऽयमर्थः । स्वयमात्मनवागता संप्राप्ता इन्दिरा लक्ष्मीः कैमूनिवार्यते निषिध्यते । अपि तु न कैश्चिदपि ॥
अवेत्य चेतस्यमुना समुन्नतिं खशासने पुस्तकसंग्रहेण सः । मुदामिवौङ्कार इदंक्षितिक्षितस्तथेति वाचंयमवासवोऽवदत् ॥ ११३॥ वाचंयमवासवः यतिजम्भारातिः तथेति एवमस्तु मया साहिप्रदत्तं पुस्तकं ग्रहीयते इत्यवदत् भाषते स्म । उत्प्रेक्ष्यते-इदंक्षितिक्षितः अस्याकबरपालिसाहेच्दां परमानन्दानामोङ्कारः आदिरिव । किं कृत्वा अवदत् । इत्यमुना मुद्गलाखण्डलेन चतुर्दिगधिपतिना पातिसाहिना खयमत्यागृह्य प्रदत्तानामेतत्पुस्तकानां संग्राहणं कृत्वा ख. शासने जैनमते तपागच्छे वा समुन्नति दीप्तिमुद्दयोतं वा प्रभावानां चेतसि खहृदये अवेत्य विज्ञाय ॥
उपेत्य ताभ्यां तदभाषि भूपतेस्तदेष निश्चेतुमपृच्छदात्मना । मुदं प्रणेतुं द्विगुणामिवावनीमणेर्गणेन्द्रोऽप्यवदत्तथैव तम् ॥ ११४ ॥ ताभ्यां शेखथानसिंहाभ्यामुपेत्य पातिसाहिसमीपे समागत्य भूपतेरकब्बरस्य तत्सूरिकथितपुस्तकखीकारवचः अभाषि प्रतिपादितम् । पुनः साहिस्तयोस्तद्वचो निश्चेतुं सत्यतया ज्ञातुमात्मना स्वेन स्वयं वा तानपृच्छत् प्रश्नयति स्म श्रीमद्भिर्मदीयं पुस्तकं गृहीतं न वेति खयं पुनः पृष्टवान् । अपि पुनर्गणेन्द्रो गच्छनायकोऽपि तं भुपति तथेति मया श्रीमत्पुस्तकं गृहीष्यते गृहीतं वा इत्येवमवदत् जगाद। उत्प्रेक्ष्यतेअवनीमणेरकब्बरस्य मुदमानन्दं द्विगुणां प्रणेतुं विधातुमिव ॥ इति शेखथानसिंहविज्ञपनात्साहिपुस्तकग्रहणम् ॥
दयान्वितं धर्ममवाप्य सद्गुरोरिवार्णवात्कृष्णलताङ्कविद्रुमम् । स थानसिंहं यवनावनीधनस्ततः समाहूय गिरं गृहीतवान् ॥ ११५॥ सूरिणा ततः पुस्तकादानखीकारकथनश्रवणानन्तरं वा सोऽकब्बरसाहि: यवनास्तु