________________
काव्यमाला।
स कर्णकेसरी पण्डितपश्चाननः सूरिस्तदा पुस्तकदर्शनसमये इदं पुस्तकं यूयं गृहीत इति नृपतिनिगदितमाकर्ण्य श्रुत्वा तमसामज्ञानानां पाप्मनां वा अवावरीमपनेत्रीम् । 'ओण अपनयने' ओण् धातुः । 'अन्येभ्योऽपि दृश्यते' इति वनिप्प्रत्ययः । ‘णोन्ता. द्वातो डीपञ' इति केचिदिति वन्प्रत्ययस्य डीप आगमो नकारस्य राकारादेशः । 'विडनोरनुनासिकस्य' इति सूत्रेण धातोर्णकारस्याकारादेशः । ओकारस्यावादेशः । अवावरी इति सिद्धम्-इति प्रक्रियाकौमुद्याम् । दुरितहत्री गिरं वाणी न्यगादीत बभाषे । किमुवाच-बहवो धीमन्तो वुद्धिमन्तो वर्तन्ते यस्यां सा बहुधीवरी नगरी श्रीकरी तस्या वरः पतिस्तस्यां वरः श्रेष्ठः सर्ववेतृत्वात् सर्वाधिपतित्वात्तस्य संबोधनम् । बहवीही वा ततो बहधीवरी बहधीवा इति प्रयोगद्वयं स्यात्। 'वनोर च' वनन्तात्त्रियां डीप रश्चान्तादेशादि सर्वं पूर्ववत् । अयमपि प्रयोगः प्रक्रियायामेव । पुस्तकेन कृत्वा मम किमपि कृत्यं कार्य नास्ति न विद्यते । कस्येव । अवाप्ततृप्तेरिव । यथा अवाता लब्धा तृप्तिः साहित्यं येन । एतावता आकण्ठमिच्छापूरणपर्यन्तं भुक्त्वोत्थितस्य पुंसः अशने भोजने कृत्वा किमपि कार्य न स्यात् ॥
नरेन्द्र यावद्रतिनां विलोक्यते तदस्त्यमीषां क्रियतेऽधिकेन किम् । विभोरिमां दामवदुद्वहन्हृदा गिरं पुनः क्षोणिपुरंदरोऽवदत् ॥९९॥ हे नराणां मध्ये इन्द्र सहस्रलोचन साहे, व्रतिनां सर्वविरतिवतामनगाराणां यावत्प्रमाणमध्येतुं वाचयितुं विलोकयितुं विलोक्यते तावत्प्रमाणं पुस्तकममीषां यति(ती)ना. मस्ति विद्यते तर्हि मूर्खाकारिणा अधिकेन बहुना किं क्रियते। न किमपीत्यर्थः । पुनः क्षोणिपुरंदरो नृपोऽवदत् जगाद । किं कुर्वन् । विभोः सूरेरिमां यावत्पुस्तकं विलोक्यते तावन्मानं तत्पुस्तकं वर्तते । साधूनामधिकेनाधिकरणभूतेन पुस्तकेन किं विधीयते न किंचिद्विधेय मित्यादिकां गिरं वाणी हृदा मनसा उद्वहन्। किंवत् । दामवत् । यथा कश्चि. द्भोगी पुमान् हृदा वक्षसा कुसुममालिकामुद्वहते धारयति ॥ ब्रवीमि किं वो बहु येन निःस्पृहा महीधनाकिंचनतुल्यचक्षुषः । तथापि मन्त्राहुतिसिद्धदेववत्प्रसाद्य में पिप्रतु यूयमीहितम् ॥ १.०० ॥ हे सूरयः, वो युष्मान् प्रति बहु पुनः पुनरधिकं वा किं ब्रवीमि कथयामि। येन का. रणेन यूयम्। बहुशब्द उभयत्रापि योज्यते। बहु अत्यधिकं निःस्पृहाः कुत्रापि सर्वैरप्यभिलषणीये रमणीयेऽपि वस्तुनि वाञ्छारहिताः । पुनः किंभूताः । महीधनाः भूपतयः तथा अकिंचना दरिद्राः तेषु लक्षणात्तृणे श्रेणे च अहौ हारे च दृषदि रत्ने च तुल्यं विशेषममत्वरहितं चक्षुर्येषाम् । यद्यप्येवंविधाः स्थ यूयम् , तथापि प्रसाद्य मयि प्र. सादं कृत्वा मे मम ईहितं पुस्तकादानलक्षणमभिलषितं यूयं पिप्रतु पूरयन्तु । किंवात् मन्त्राहुतिसिद्ध देववत् । यथा प्रणवमायाबीजवाग्बीजकामबीजादियुक्तेन कृतपूर्व वोत्त. रसेवाविधिना मन्त्रेण आहुत्या गुग्गुलागुरुफलावलीपश्चामृतादिह वनं । चतिः दुः