________________
६७६
काव्यमाला।
तमसामशानानां दुष्कृतानां वा अन्धकाराणां स्तोमस्य समूहस्य मिदायां विदारणे विदा वरैः कुशलैः वेत्तषु मुख्यैः ॥
प्रकीर्णकैर्धर्मधरापतेरिव प्रकीर्णकैः प्रादुरभावि तत्र च । परश्वधैश्छेदकरैर्धरारुहामिवांहसां छेदवरागमैस्तथा ॥ ७॥ चतुःप्रमाणैरपि मूलवाङ्मयैश्चतुर्गतीनां प्रतिषेधकैरिव। .. . युगेन वा नन्द्यनुयोगशास्त्रयोद्देशोरिव श्रीजिनशासनश्रिया ॥८॥ च पुनस्तत्र पुस्तके चतुःशरण-आतुरप्रत्याख्यान-महाप्रत्याख्यान-भक्तपरिज्ञानवेदुलवैकालिक-चन्द्राविध्वज-गणिविद्या-मरणविभक्ति-देवेन्द्रस्तव-संस्तारकप्रकीर्णक-इति नामभिर्दशप्रकीर्णकैः प्रादुरभावि प्रकटीभूतम् । उत्प्रेक्ष्यते-धर्मधरापतेः धर्मनानो राज्ञः प्रकीर्णकैश्चामरैरिव । तथा पुन: निशीथ-महानिशीथ-व्यवहार-दशा- • श्रुतस्कन्ध-पश्चकल्प-जीमूतकल्प-बृहत्कल्पनामभिः छेद इति संज्ञया वरैः प्रधानैः आगमैः सिद्धान्तैः आविर्भूयते स्म । किंभूतैः । अहसां पापानां छेदकरैः खण्डशः कारिभिः । कैरिव । परश्वधैरिव । यथा कुठारैः धरारुहां वृक्षाणां शतसहस्रलक्षशः शकल. कारकैः भूयते । अपि पुनश्चत्वारि प्रमाणानि येषां तैश्चतुःप्रमाणैः मूलवाङ्मयैः आवश्यकदशवैकालिक-उत्तरायन-पिण्डनियुक्ति-रितिमूलाभिधानैराद्धान्तैराविरभावि । उत्प्रेक्ष्यते-चतुःप्रमाणत्वेन चतुर्णा नरक-तिर्यड्-मानव-दानवाहितानां दुष्टानां निकृष्टानां भवभ्रमणहेतूनां नीचजातीनां वा गतीनां प्रतिषेधकैर्निवारकैरिव । वा पुनः नन्दी तथा अनुयोग इति नाम ययोस्तादृशयोः शास्त्रयोर्युगेन द्वन्द्वेन प्रकटीभूतम् । उत्प्रेक्ष्यतेश्रीजिनशासनश्रिया श्रीमन्महावीराईन्मतलक्ष्म्या दृशोर्द्वयं नयनयोर्यामलम् किमेतावता पश्चचत्वारिंशदागमाः संजाताः ॥ युग्मम् ॥
अलंकृतिज्यौतिषकाव्यनाटकप्रमाणवेदान्तसलक्षणागमान् । ' अदर्शयन्साधुसुधांशुसाघवो नृपस्य भावानिव भानुभानवः ॥ ८९ ॥
अथापरशासनसत्करशास्त्राणां नामान्याह-अलंकृतिः वाग्भटालंकार-काव्यानुशासन-छन्दोनुशासन-वृत्तरत्नाकरादयोऽलंकारप्रन्थाः, ज्यौतिषाणि नारचन्द्र-आरम्भसिद्धि-वाराहीसंहिता-खण्डखाद्य-कर्णकुतूहलादीनि ज्योतिःशास्त्राणि, काव्यानि रघुवंश-मेघदूत-कुमारसंभव-किरात-माघ-नैषध-चम्पू-कादम्बरी-पद्मानन्द-यदुसुन्दराद्यानि, नाटकानि पिङ्गलभंरतादीनि तथा हनूमत्-दृताङ्गद-रघुभीमनाटकादीनि च नाटकशास्त्राणि, तथा प्रमाणं तर्कपरिभाषा-सप्तपदार्थी-मितभाषिणी-प्रमाणमञ्जूषाशशधरचरदराजी-मणिकण्ठवर्धमान-प्रशस्तपदभाष्य-वर्धमानेन्दु-किरणावली-चिन्तामणि-खण्डन-पूर्वमीमांसा-पश्चाध्यायी-जैनप्रमाण-प्रमाणमअरी-स्याद्वादमञ्जरी-रमाकरावतारिका-समिति-स्याद्वादरत्नाकरादीनि प्रमाणशास्त्राणि, वेदान्त उपनिषद्-ऋग्यजुः-साम-अथर्वणाभिधवंदानां वृत्तिा, सहलक्षणैः इन्द्र-चन्द्र-काशकृत्स्न-आपि.