________________
१४ सर्गः] हीरसौभाग्यम् । रहसि वा प्रकटं वा नर्म क्रीडा तदेव नर्मदा मेकलाचलजाता नदो नर्मदानानी तस्या हृदो द्रहस्तस्यावगाहे विलोडने जलकेलिविधौ वा न द्विरदायितं गजवदाचरितम्। प्रायो विन्ध्यपर्वतोत्पन्ना हस्तिनो विन्ध्योपकण्ठप्रवहन्नर्मदायामनिशं खैरं रमन्ते । यदु. कम्-'कोपं वारि विलोक्य वारणपते किं विस्मितेनास्यते प्रायो भाजनमस्य संप्रति भवांस्तत्पीयतामादरात् । उन्मनच्छफरीपुलिन्दललनापीनस्तनास्फालनस्फालीभूतमहोमिनिर्मलजला दूरे धुनी नर्मदा ॥' इति गजाप्टके । पुनर्हे भूमण्डलाखण्डल, यो हेतीश्चाप
चक्रशूलगदाप्रमुखानि प्रहरणानि न बिभर्ति । क इव । तनूनपादिव । यथा 'वहिहेती'ज्वाला धत्ते । 'हेतिः प्रहरणं शस्त्रम्', तथा 'हेतिः कीला शिखा ज्वाला' इति द्विकमपि हैम्याम् । पुनर्यः हिंस्रवत् घातुक इव अहितान्वैरिणो न हिनस्ति न घातयति । पुर्यः भवं संसारं भिनत्ति भनक्ति । क इव । करीव । यथा हस्ती पञ्जरं काष्ठकोष्ठं भिनत्ति भेदयप्ति । 'जयकोईमणकमेलभसलभयपंजरकुंजर' इत्यभयदेवसूरिकृतजयतिहुअणस्तोत्रे॥ त्रिभिर्विशेषकम् ॥ इति देवखरूपम् ॥
परिग्रहं. यो जलमम्वुदाविलं मरालवन्मुञ्चति सद्म संसृतेः । प्रबोधशालीनिह यः प्ररोपयेत्कृपारसापूरितमानसावनौ ॥ ३१ ॥ प्रवर्तको यः सुगतेश्च दुर्गतेर्व्यनक्ति मार्गौ रविवच्छुभाशुभौ । भवात्तरन्खेन परांश्च तारयस्तरीव वार्डं गुरुरीदृशः स्मृतः ॥ ३२॥ हे साहे, यः संसृतेः संसारस्य सद्म गृहभूतं परिग्रहं धन-धान्य-क्षेत्र-वस्तु-रूप्यसुवर्ण-कुप्य-द्विपद-चतुष्पदरूपं नवविधमपि खयमान्मना मुञ्चति जहाति । किंवत् । मरालवत् । यथा राजहंस: अम्बुदेन प्रावृषेण्यप्रबलजलधरवारिवर्षणेन जम्बालजलप्लवागमनेनाविलं पङ्किलीकृतं जलं सरसीसलिलं त्यजति । 'गङ्गानीरमपि त्यजन्ति कलुषं ते रानहंसा वयम्' इति सूक्ते । पुनर्यः कृपारसेन कारुण्यामृतेन पूरितायां भरितायां पूर्णीकृतायां वा मानसं भविजनमन एवावनि मिस्तस्यां प्रबोधाः सम्यग्ज्ञानानि त एव शालयः कलमास्तान्प्ररोपयेत् वपेत् । जलभृतभूमौ हि शालय उप्यन्ते इति स्थितिः । पुनर्यों रविवत्सूर्य इव शुभाशुभौ समीचीनासमीचीनौ मार्गों पन्थानौ व्यनक्ति प्रकटयति । किंभूतौ मागौं । सुगतेः खर्गापवर्गस्य, तथा दुर्गतेनरकतिर्यक्लादिकुगतेः प्रवर्तकः । हे साहे, ईदृश ईदृग्लक्षणो गृह्णाति तत्त्वं सम्यग्मार्ग च स्वयं विज्ञाय भव्य. जन्तूनुपदिशतीति गुरुः स्मृतः शास्त्रेषु कथितः । किं कुर्वन् । भवात्संसारात् स्वेना. स्मना तरन्पारं प्राप्नुवन् च पुनः परानन्यान् भविकांस्तारयनुत्तारयन् परपारं प्रापयन् । केव । तरीव । यथा नौधिों समुद्रे स्वेन तरति पारे गच्छति परान् खाश्रितान् लोकांश्च तारयति परतीरं लम्भयति ॥ युग्मम् ॥ इति गुरुखरूपम् ॥
जिनास्यपद्मे मकरन्दविभ्रमं दधद्विपत्पूषसुताप्रलम्बभित् । महोदयस्वर्गितरोरिवाङ्करः कृपापयोराशितमखिनीपतिः ॥ ३३ ॥