________________
काव्यमाला।
सूरिपुरंदरगदितानिति तीर्थान्मेदिनीसुनासीरः ।
श्रवणाभरणानीव व्यधित निजश्रोत्रपत्रयुगे ।। २२२ ॥ ___ इत्यमुना प्रकारेण सूरिपुरंदरेण हीरविजयसूरिराजेन गदितान् साहिपुरःकथितान् तीर्थान् शत्रुजयादिपुण्यस्थानानि । तीर्थशब्दः पुनपुंसके । 'प्रस्थं दीर्थ प्रोद्यमलिन्दः' इति लिङ्गानुशासनपुंनपुंसके । मेदिनीसुनासीरो भूमीजम्भारातिः निजस्यात्मनः श्रोत्रपत्रे कर्णपालौ श्रवणाभरणानि कर्णपूरानिव व्यधित चकार । 'श्रवणपूरितमालदलाकरः' इति नैषधे । सम्यक् शुश्रावेत्यर्थः ॥
अपि यतिपर्जन्योदिततीर्थततिश्रुतिसुधारसःप्रसरन् ।
अविशन्मानसमुर्वीभर्तुः कर्णप्रणालिकया ॥ २२३॥ . . साहिन केवलं तीर्थानि श्रवणगोचरमात्राणि कुरुते स्म, किं तु सम्यङ्मनस्यवधारया. मास । तदेवाह-अपि पुनः यतिनां मध्ये पर्जन्येन वासवेनोदितानि निवेदितानि कथितानि यानि वीर्थानि तेषां ततिः श्रेणिस्तस्याः श्रुतिः श्रवणं सैव सुधारसः अमृत. निस्पन्दः स प्रसरन् प्रवर्धमानः कर्णः श्रवणमेव प्रणालिका जलागमननिर्गमनमार्गः तया कृत्वा उर्वीभतुः नृपस्य मानसं मनः अविशत् प्रविवेश । अथ वा उ:भृत्पर्वतः, प्रस्तावात् हिमाचलः । हिमाद्री मानसं सरोऽस्तीति कविसमयः । तथा 'सदा हंसाकुलं बिभ्रन्मानसं प्रचलजलम् । भूभृन्नाथोऽपि नायाति यस्य साम्यं हिमाचलः ॥' इति चम्पूकथायाम् । ततः पर्जन्याजलधरात्प्रादुर्भुतः प्रबलवृष्ट्या समुत्पन्नः प्रवर्धमानः पदे पदे अपरापरस्रोतःप्रवेशाद्वृद्धिं प्राप्नुवन् पयःप्रवाहः हिमाचलस्य मानसं सरः नीरागमनस्य 'घडनालां' इति लोके ख्यातत्य मार्गेण प्रविशति ॥ इति सूरिकथितानि तीर्थानि साहिना श्रुत्वावधारितानि ॥
शेखूजी इत्येकः पाटी अपरश्च दानियार इति ।
तिष्ठन्ति साहिजाता अमी कुमारा इव धुसदाम् ॥ २२४ ॥ . हे सूरयः, अमी पुरःस्थायुकाः साहिजाताः पातिसाहितनयाः लोके 'साहिजादा' इति प्रसिद्धाः तिष्ठन्ति उर्वीभूय स्थिताः सन्ति । उत्प्रेक्ष्यते-द्युसदां देवानां कुमारा इव ।अमी के। तानामप्राहं निवेदयति दर्शयति च-एकः त्रयाणां मध्ये एकोऽय शेखूजी इति नामास्ते । च पुनरपरो द्वितीयोऽयं पाटी इति नाम्ना अस्ति । च पुनरपरोऽयं तृतीयः कनिष्ठो दानियार इत्यभिधानो वर्तते ॥
एषामाशिषमखिलश्रीणां संकेतसदनमिव ददत ।
सारिण्या शिखरिण इव यथानयामी विवर्धन्ते ॥ २२५ ॥ हे सूरयः, यूयमेषां मन्नन्दनानामखिलानां सर्वप्रकाराणां श्रीणां लक्ष्मीणां संकेत