________________
१.३ सर्गः]
हीरसौभाग्यम् ।
६४१
चन्द्रस्य योषा कान्ता रात्रिस्तस्या मुखे प्रारम्भे संध्यासमये । 'रजनी वसतिश्यामा वासतेयी तमखिनी । उषा दोषेन्दुकान्ता' इति, तथा 'प्रदोषो यामिनीमुखम्' इति द्वैम्याम् । सरखति समुद्रे कुतः कारणाद्यायाद्गच्छेत् । तत्र गमनकारणं तु दैत्यारिसेवनैव ॥
कामचापभ्रुवः स्फारशृङ्गारिणी कुम्भिकुम्भप्रगल्भस्तनीः स्रग्विणीः । स्वर्वशाः किं प्रणश्यत्पृषच्चक्षुषः सुभ्रुवोऽमी तृणं मन्यते क्ष्मापते २१० हे क्ष्मापते भूमीनायक, अमी सूरयः सुभ्रुवो नारीस्तृणं मन्यते तृणप्राया गणयन्ति जानन्ति । किंभूताः सुभ्रुवः । कामस्य मदनस्य चापः कोदण्डः तद्वद्भुवो यासाम् । पुनः किंभूताः । स्फारो विश्वचेतश्चमत् कारकारी मनोहारी च शृङ्गारो वस्त्राभरणाद्याडम्ब - रोऽस्ति आसाम् । पुनः किंभूताः । कुम्भिनां गजेन्द्राणां कुम्भौ शिरसः पिण्डौ तद्वत् प्रगल्भ तुङ्गौ पीनौ च स्तनौ कुचौ यासाम् । पुनः किंभूताः । स्रजः खर्णरत्नमुक्तादीनां रक्तसुमादीनां मालाः सन्त्यासाम् । 'अस्मायामेधास्रग्भ्योऽस्त्यर्थे विनिर्वक्तव्यः' इति सारखते । पुनः किंभूताः । प्रणश्यन्तो भयपलायमाना ये पृषतो मृगविशेषाः तेषां चञ्चललोचने इव चक्षुषी यासाम् । उत्प्रेक्ष्यते - किं साक्षात्स्वर्वशा अप्सरस इव । सुराङ्गनासदृशा अपि वशा एते तृणाय मन्यन्ते । व्यञ्जनान्तोऽपि पृषच्छन्दो मृगवाची दृश्यते । यथा नैषधे- 'पृषत्किशोरी कुरुतामसंगतम्' इति ॥
विरागे नानुरागे न तोषे दोषे न भूविभो ।
मुक्तौ न सुभ्रुवां भुक्तौ चेतश्चिन्वन्त्यमी क्वचित् ॥ २११ ॥
भूविभो, अमी सूरयः विरागे वैराग्ये सर्वसंसारासारतापरिज्ञानादनित्यभावनायां चेतः स्वं मनश्चिन्वन्ति पुष्टं कुर्वन्ति परं नानुरागे क्वचित्कुत्राप्यवस्थायां न पुनः पुत्रकलत्र मित्रद्रविणाद्यनुरक्तौ आजन्म यावद्वैराग्यरङ्गतरङ्गितमानसा एव वर्तन्ते । तोषे निर्लोभ तालक्षणे संतोषे । 'संनिधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किंकरायन्ते संतोषो यस्य भूषणम् ॥' इत्युक्तेः स्वास्थ्ये चेतश्चिन्वन्ति, न पुनः क्वचित्कस्मिन्नपि दोषे अपगुणे रागद्वेषकषायादौ च । पुनर्मुक्तौ कदा अनादिसंसारपरम्परालतां मूलादुच्छिद्य मोक्षे यास्याम इत्याशये, न पुनः क्वचिद्देवनरादिकानां कलत्राणां भुक्तौ भोगे विलासे राज्यादिसुखलीलाभुक्तौ वा । 'जिनेति जिनभद्रेति वा स्मरन् । नरो न लुप्यते पापे भुक्ति मुक्ति च विन्दति ॥' इति जिनकवचनस्तोत्रे | चेतश्चिन्वन्ति ॥
भूलोके भोगिलोके च स्वर्लोके स न कश्चन । आवाभ्यामुपमीयेत योगिनां मौलिनामुना ॥ २१२ ॥
हे प्रभो, भूलोके निखिलविपुलामण्डले च पुनर्भोगिनां भुजंगमानां लोके भुवने पाताले च पुनः स्वर्लोके देवमन्दिरे कश्चन कोऽपि स वशीन्द्रो नास्ति यो योगीन्द्रः योगि