________________
१३२
काव्यमाला। च । अस्माकं किं कुर्वताम् । रश्मिव्रजै रज्जूत्कौस्तुरगानश्वानिव निरीहभावनिर्गता ईहा स्त्रीपुत्रमित्रविभवादिषु सांसारिकेषु सर्वेष्वपि पदार्थेषु वाञ्छा येषां ते निरीहास्तेषां भावास्तैः कृत्वा निःस्पृहताभिरक्षाणि समनस्कानि पञ्चानीन्द्रियाणि खयमात्मना सार• थिभावेन यन्त्रयतां दमयतां वशीकुर्वताम् ॥
प्रत्यूहकृत्कोऽपि न नः समाधेः कुतोऽशिवं स्याद्भुवि यत्त्वयीशे । गृहाङ्गणस्थायिनि कल्पशाखिन्युपद्रवेत्किं नु दरिद्रभावः ॥ १८१ ॥ हे साहे, नोऽस्माकं समाधेर्मनःखास्थ्यस्य ध्यानस्य वा कोऽपि कश्चिदपि प्रत्यूहकृद्विघ्नविधाता नास्ति, यद्यस्मात्कारणात्त्वयि ईशे खामिनि अवनीनेतरि समर्थे अशिवोपशामके सति भुवि पृथिव्यामशिवमर्थात् त्वद्देशवासिनामकल्याणं कुतो भवेत् । अपि तु न स्यादेव । युक्तोऽयमर्थः । नु इति परिप्रश्ने। गृहस्याङ्गणे अजिरे तिष्ठतीत्येवंशीलस्तस्मिन् गृहाङ्गणस्थायिनि कल्पशाखिनि सुरद्रुमे दरिद्रभावो दारिद्यं किमुपद्रवेत् । अपि तु न दारिद्यलेशोऽपि स्यादिति ॥
अनित्यताभावनया पदार्थसार्थस्य विश्वस्य मनः पुनर्नः । क्षोदैरिवाम्भः कतकस्य शश्वत्प्रसन्नमास्ते वसुधासुधांशो.॥ १८२ ॥ हे वसुधासुधांशो सकलावनीरजनीपते भूपते, विश्वस्य जगतः पदार्थसार्थस्य वस्तुत्रजस्य अनित्यता अशाश्वतत्वम् । यतः--'ही संसारसहावो सुचरियनेहाणुरायरत्तावि । जे पुव्वत्रेदीष्ठा अवरने ते न दीसंति ॥' तथा 'संझरागजलवुनुउन्वमे जीविताण्यजलबिंदुचंचले। जुव्वणेयनइवेगसंनिभे पावजीवकिमयं न वुज्झसि ॥'; 'अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥' 'यदि जन्मजरामरणं न भवेद्यदि चेष्टवियोगभयं न भवेत् । यदि सर्वमनित्य मिदं न भवेदिह जन्मनि कस्य रतिर्न भवेत् ॥' इति वचनात्सर्वसनित्यं धर्म एव नित्यः कार्यः इति भावनया वासनया कृत्वा पुनर्नोऽस्माकं मनश्चित्तं प्रसन्नं धर्मकर्मणि निर्मलमेवास्ते । किमिव । अम्भ इव । यथा कतकस्य कतकनाम्नः फलस्य क्षोदैश्चूर्णैर्जलं प्रसन्नं खच्छं स्यात् । तथा यदुक्तम्-'विमलखामिनो वाचः कतकक्षोदसोदराः । जयन्ति त्रिजगच्छेतोजलनैर्मल्यहेतवः ॥' इति सकलार्हत्प्रतिष्ठाने ॥
गोशीर्षसौरभ्यमिवानिलेन संदेशहारिद्वितयेन इतः । गन्धारनामो नगरान्महीन्दो शनैः शनैर्वृद्धतया समागाम् ॥ १८३ ॥ हे महीन्दो साहे, गन्धार इति नामाभिधानं यस्य तादृशानगरात्समागाम् श्रीमत्पादूँ . समेतः। कथम् । शनैः शनैर्मन्दं मन्दम् । कया। वृद्धतया स्थविरत्वेन । किंलक्षण: अहम् । संदेशहारिणो तयोः । 'शासनहारिणा हरेः' इति रघौ । यथा शासनहारी तथा संदेशहारीति । तथा 'दूतः संदेशहारकः' इति हैम्याम् । द्वितयेन द्वन्द्वेन हूतः आकारितः ।