________________
१३ सर्गः हीरसौभाग्यम् ।
हे सूरे, खुदाख्यः परमेशिता तत्र सभामध्ये सर्वस्य पूर्वोत्तस्य यवनजनस्य साधु सम्यक्प्रकारेण यथा स्यात्तथा न्यायं सदसद्यवहारविचारं विधास्यते खयमेव करिध्यते । किं कृत्वा । अयं खः खकीयो मदीयः, अयं च परः परकीयः न मत्पक्षाश्रितः, इति यज्ज्ञानं स तु सांसारिकव्यवहारः तयोः खपरयोरनुरोधो बह्वाग्रहोऽथ वा तयोरेव बोधो ज्ञानं तं निरस्य त्यक्त्वा । यदुक्तम्-'अयं निजः परो वेति गणना लधुचेतनाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥' इति । पुनरपि किं कृत्वा । आदर्शिका हस्तकनिर्मुक्का पृष्ठे च ग्रहणाही केवला दर्पणिका । मेवातमण्डलादौ भादर्शिकेत्युच्यते । तस्यामिव सम्यक्प्रकारेण शुद्धा निर्मला निष्पापा वा खपरव्यवसायविरहिता निजस्यात्मन उपलब्धिर्मतिर्ज्ञानम् । 'प्रेक्षाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः' इति हैम्याम् । तस्यां पुण्यपापे अर्थाद्यवनजनस्य सुकृतदुष्कृते संक्राम्य खहृदये प्रतिबिम्बयित्वा । विचार्येत्यर्थः ॥
विमृश्य विश्राणयिता फलं स श्रेयोंहसोस्तस्य ततोऽनुरूपम् । मसूरगोधूमयवादिधान्यबीजस्य सस्योत्करमुर्वरेव ॥ १४० ॥ ततस्तत्सदसज्ज्ञानानन्तरं स खुदाभिधः परमेश्वरः विमृश्य अनेनैवंविधं कर्म वि. निर्मितम् अत एतस्य ईदृशमेव फलं प्रदत्तं विलोक्यते इति खमानसे विचार्य । यदुक्तम्-'यद्यावद्यादृशं येन कृतं कर्म शुभाशुभम् । तत्तावत्तादृशं तस्य फलमीशः प्रयच्छति ॥' इति चम्पूकथायाम् । एतद्वचनात् तस्य यावद्यवनजनस्य श्रेयाहस्रोः पुण्यपापयोरनुरूपमुचितं फलं सुखदुःखानुभवनरूपं विश्राणयिता खस्तनीप्रयोगः प्रदास्यति । • केव । उर्वरेव । यथा सर्वसस्या यत्रोप्तमात्राणि सर्वाण्यपि धान्यानि सम्यक् निष्पद्यन्ते . सोर्वरेत्यभिधीयते । तादृशी धरित्री। मसूरा मालवमण्डले बहुप्रसिद्धाः, गोधूमाः सर्व
त्रापि ख्याताः, तथा यवा अर्बुदपरिसरे अतिशयेन प्रथिताः प्रायशस्तु सर्वत्रापि वि.श्रुताः, एते त्रयोऽप्यादौ येषां तेषामपरेषामपि धान्यानां बीजं योनिनिबन्धस्य योग्य सस्योत्करनिवहं विश्राणयति प्रदत्ते । सर्वसस्यायां भूमौ यादृशं धान्यमुप्यते तादृशमेव लूयते इत्यर्थः ॥
नावोऽम्बुधेः कूलमिवानुकूलवातेन भिस्तिं गमिता अनेन । भोक्ष्यन्ति भोग्याद्भुतभोगभङ्गीतरङ्गिताः केऽपि ततः सुखानि॥१४१॥ ततः पुण्यफलदानादनेन खुदासंज्ञेन परमेश्वरेण केऽपि पुण्यभाजिनो यवना भिस्ति स्वर्ग गमिताः प्रापिता: सन्तो भोग्याः भोक्तुं योग्याः अथ वा भुज्यन्ते निरन्तरसातं यस्तानि भोग्यानि तैः पुण्यपरिकैः कृत्वा अद्भुताभिराश्चर्यकारिणीभिभॊगानां विविधसुखानां नानाप्रकारहृदयंगमाभ्यवहाराणामाभरणवसनागणितमणिमौक्तिकखर्णादिधनानामथवा इह लोके राज्यादिलक्ष्मीणां भङ्गीभिः रचनाभिः तरङ्गिताः प्रमोदमेदखितां गताः सन्तः । 'भोगस्तु राज्ये वेश्याभृती सुखे । धनेऽहिकायफणयोः पातालाभ्यवहारयोः।'