________________
काव्यमाला।
स सूरिस्वस्मिन् जगमल्लकच्छवाहकसामन्तमन्दिरे अशेषां समस्तामपि उषां रजनीमनैषीदतिकामति स्म । क इव । रश्मिमालीव । यथा भानुमान् परस्मिन्नन्यत्र द्वीपे अखिला निशामतिवाहयति । किंलक्षणः सूरिः भाखांश्च । प्राग्भूमिभृतः प्राचीनभूपालात् । यद्यपि चतसृणामपि दिशां पतिस्तथापि गुरूणां प्रायो गुर्जरस्थितिमत्तया गुर्जरापेक्षया च पूर्वदिशि स्थितत्वेन प्राचीपतिरेवोक्तः । तस्मादकब्बरसाहेः सकाशात् खस्मात्मनः आत्मीयजिनशासनस्य वाभ्युदयमुन्नतिमभिलषति काढति इत्येवंशीलः । सूर्यपक्षे पूर्वपर्वतादुद्गमनमिच्छतीत्येवंशीलः । 'उदयः पर्वतोनत्योः' इत्यनेकार्थः । पुनम किंभूतः । निजस्य स्खस्य आननेन वदनेन आगमनावसरेण अरुणोदयेन वा न्यक्क. तरतरस्कृतः । विच्छायीकृत इत्यर्थः । शीतकान्तिश्चन्द्रो येन ॥
प्राभातिकं कृत्यमथ प्रणीय तृणीकृतांहा विशदाशयश्च । फतेपुरं प्रत्यचलद्रतीन्द्र इवाम्बुधिं सिद्धधुनीप्रवाहः ॥ ११७ ॥ .
अथ रात्रिविरामानन्तरं सूरिः फतेपुरं प्रत्यचलत् प्रतिष्ठते स्म । किं कृत्वा । प्राभाविकं प्रभातकालसंबन्धि कृत्यमावश्यकादिकं करणीयं प्रणीय निर्माय । क इव । सिद्धधुनीप्रवाह इव । यथा गङ्गायाः पयःपूरः अम्बुधिं समुद्रं प्रति प्रचलति । किंभूतः सूरिः प्रवाहश्च । तृणीकृतं तिरस्कृतं निवारितमंहः पापं येन । पुनः किंभूतः । विशदो निर्मलो निष्पाप उज्ज्वलश्चाशयो मनो मध्यं च यस्य ॥
स श्रीकरी कैरविणीशकीर्तिः प्रावीविशद्विश्वजनीनमूर्तिः । महःसमूहोऽम्बुजबान्धवस्य विभावरीवल्लभमण्डलीवत् ॥ ११८ ॥ स सूरिः श्रीकरी पातिसाहिपुरीं प्रावीविशत् प्रविशति स्म । किंवत् । विभावरीवल्लभमण्डलीवत् । यथा अम्बुजवान्धवस्य भानोर्महःसमूहः किरणकलापः चन्द्रबिम्बं प्रविशति । अमावास्यायां हि चन्द्रः सूर्यसमीपे गत्वा किरणगणं मार्गयित्वा तेनाभ्युदयं लभते । यथा रघुवंशे--'पुपोष वृद्धिं हरिदश्वदीधिवेरनुप्रवेशादिव बालचन्द्रमाः' इति। किंभूतः सूरिश्चन्द्रश्च । कैरविणीशः शारदचन्द्रः तद्वद्विशदा कीर्तिर्यस्य । कैरावणीनां कुमुदतीनामीशत्वेन पतितया कीर्तिः ख्यातिर्यस्य । अथ वा । कैरविणी श्वेतकमलिनी तथा ईश ईश्वरस्तद्वदुबला कीर्तिर्विस्तारः करप्रसारः सान्द्रचन्द्रिका यस्य । अथ वा जैनमतानुसारेण कुमुदिनीशकरवद्विशदा कीर्तिः प्रासादः स्फाटिकचैत्यं वा यस्मिंश्चन्द्रमण्डले । 'कीर्तिर्यशसि विस्तारे प्रासादिकर्दमेऽपि च' इत्यनेकार्थः । पुनः किंभूतः । विश्वजनेभ्यो हिता विश्वजनीनी। 'तत्र साधौ हिते च यः' इति । भुवनजनवत्सला प्रबोधकारित्वान्मूर्तिर्यस्य । चन्द्रस्तु औषधीपतित्वादमृतमयत्वात् शैत्यकारित्वाच्चन्द्र. कापतित्वाच्चाहादकारिणी हितकारिका च मूर्तिबिम्बं यस्य ॥
मुमुक्षुशक्रः सदसत्समीक्षाहृल्लेखिताशेषजनप्रदीपः । मनोरथः सिद्धिमिवावनीपप्रवेशनक्षोणिमलंचकार ॥ ११९ ॥ .