________________
१३ सर्गः]
हीरसौभाग्यम् ।
६०९ खयमात्मनैव धरित्रीधरताया राजन्वत्त्वस्य भूमीभारोद्धताया वा अभिषेकः पट्टाभिषेककरणं तस्योत्सवे प्रयुक्तान्प्रेरितानिव ॥ किमम्बुमुक्चक्रिणमैक्ष्य वातचमूपतिक्रान्तदिगन्तचक्रम् । तदा मुधाभूतनिजप्रयत्ना विशश्रमुर्जिष्णुनृपाः प्रयाणात् ॥ १०८ ॥ तदा तस्मिन्मेघागमसमये जिष्णुनृपा जयनशीला राजानः परराजजनपदजयोद्यता भूपालाः प्रयाणादभिषेणनाद्विशश्रमुर्विश्रान्ताः स्थिताः । किंभूताः । मुधाभूता विफला जाता निजा आत्मीयाः प्रयत्ना व्यवसाया येषाम् । अविरलसलिलपूरपूरितपृथिवीतलगमनागमनसामर्थ्याभावाद्भग्नोद्यमाः । उत्प्रेक्ष्यते-अम्बुमुक् मेघः स एव चक्री सार्वभौमस्तं किमैक्ष्य दृष्ट्वा । किंलक्षणम् । वात उत्तराहपवननाम्ना चमूपतिना सेनान्या आक्रान्तं वायत्तीकृतं खामिजीमूतनूतनाभ्रकाज्ञावृतं कृतं दिशामन्तानामवसानानां चक्र मण्डलं येन ॥
अम्भोभृताभ्रभ्रमदभ्रलेखा विभूषयन्ति स्म सुपर्ववीथीम् । शके त्रिलोकीजयजागरूकसूनध्वजोर्वीधवगन्धनागाः ॥ १०९ ॥ अम्भोभिः पानीय तानि यान्यभ्राणि पयोवाहास्तेषां भ्रमतां प्रतिदिशं पर्यटताम. भ्राणाम् 'आभलां' इति प्रसिद्धानां लेखाः श्रेणयः सुपर्ववीथीं सुधाशनपद्धति गगनाझणं विभूषयन्ति स्म । तत्राहमेवं शङ्के वितर्कयामि । शङ्के इवार्थे वा । उत्प्रेक्ष्यतेत्रिलोक्यात्रिभुवनस्य जये विजयकरणव्यवसाये जागरूकस्य जागरशीलस्य सोत्साह विहिताभियोगस्य सूनध्वजो मदनः स एव उवींधवो भूपतिस्तस्य गन्धनागाः सप्तधाप्रस्रवत्प्रबलमदजलसुगन्धितबन्धुरसिन्धुरा इव । राज्ञां हि हस्तिभिर्भाव्यम् । चण्डप्रद्योतस्येव ॥
नभःस्थलीसंवलिताम्बुवाहान्समीक्ष्य रासा ददिरे प्रमोदात् । .. कुटुम्बिनीभिः किमु शूरराजाभिभूतिजायास्तदुपज्ञकीर्तेः ॥ ११० ॥
नभःस्थल्यां गगनमण्डले संवलितान्बहलीभूतानम्बुवाहान् वारिधरान् समीक्ष्य सोत्कण्ठं विलोचनगोचरीकृत्य कुटुम्बिनीभिः कुटुम्बिकघनस्तनीभिः प्रमोदात् हर्षातिरेकात् रासा रासका ददिरे दत्ताः । यदुक्तं चम्पूकथायाम्-'कलापोच्चमुखमण्डलाः' इति । 'काय जलधरपानीयाय लापा: शब्दाः कुटुम्बिनीजनजेगीयमानमेघरासकास्तैः कृत्वा उच्च मेवागमनावलोकनायोवीकृतं मुखमाननं यैस्वादृशा मण्डला देशा यासु इति तहिप्पनके । इति मेघागमे कुटुम्बिनीनां रासकप्रदानम् । उत्प्रेक्ष्यते-शूराणां शतसहस्रलक्षकोटियोधिनां सुभटानां भास्कराणां च तथा राज्ञां सामन्तनृपाणां मूर्धाभिषिक्तानां सम्राजां चन्द्राणां चाभिभूतैः पराभवनाजायते इति शूरराजाभिभूतिजा तस्यास्तदुपज्ञः स मेघ एव उपज्ञा आयं ज्ञानं यस्याः सा चासौ कीर्तिश्च तस्या इव सुभटराजजयोपार्जिताया मेघस्य कीतिरिव रासका इत्यर्थः ॥