________________
काव्यमाला।
पर्वाणि पर्युषणादीपालिकादीनि येषां ते तथा । पुनः कि० । भोगो राज्यादिसुखमस्त्ये. षामिति मत्वर्थीयप्रत्यये भोगिनस्तैः । विलासम् । 'लस श्लेषणक्रीडनयोः' इति धात्वर्थत्वा. दाश्लेषणं मिलनं कलयन् ॥
नीराजयन्तीष्विव चित्रभानुमादाय दिग्वारविलासिनीषु । संवर्धयन्तीषु पयःपृषद्भिर्वेलासु कान्ताखिव मुक्तिकाभिः ॥ ११ ॥ यं शंभुशैलच्छविरोमगुच्छचन्द्रातपत्रोद्धतवाहिनीकम् ।।... वार्धेस्तरङ्गा मगधा इवोर्वधवं स्तुवन्तीव गभीररावैः ॥ १२ ॥ यं जम्बूद्वीपं वार्धेः समुद्रस्य तरङ्गाः कल्लोलाः ।उत्प्रेक्ष्यते-भीररावैर्मन्द्रस्वरैः स्तुव. न्तीव स्तुतिं कुर्वन्तीव । के इव । मगधा इव । यथा मागधा वंशादिस्तुतिकारिणः उर्वीधवं पृथ्वीपतिं स्तुवन्ति । किं० जम्बू: । शंभुशैलः कैलासस्तस्य च्छवयः स्फटिकरत्ननिर्यद्दद्युतय एव रोमगुच्छाश्चामराणि यस्य तथा चन्द्रो विधुमण्डल एवातपत्र छत्रं यस्य । पुनः किं० । उद्धता रङ्गत्तरजैरुत्कटा वाहिन्यो नद्यो यस्य । पश्चात्कर्मधारयः। उवधिवमपि शंभुशैलच्छविवदुज्ज्वला रोमगुच्छा यस्यां तथा-चन्द्रतुल्यमातपवारणं यस्य । तथाउद्धताः स्वच्छोत्कर्षाद्वैरिवारं तृणं मन्यमाना वाहिन्यः सेना यस्य । अत्रापि कर्मधारयः । कामु सतीषु । दिग्वारविलासिनीषु सतीषु दिश एव वाराङ्गनास्तासु । उत्प्रेक्ष्यते-नीराजयन्तीष्विव । नीराजनामारात्रिकां कुर्वतीषु । नीराजनां कुर्वन्ति इति नीराजयन्ति । करणे त्रिप्रत्ययः । नीराजयन्तीति नीराजयन्त्यस्तासु । 'प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः' इति नैषधे । 'नीराजनया आरात्रिकविधानेन' इति तदृत्तिः। किं कृत्वा । चित्रभानुं सूर्यमादाय गृहीत्वा । अन्या अपि वारविलासिन्यश्चित्रभानुं वद्धिमादाय राजानं नीराजयन्ति । 'बनो हंसश्चित्रभानुर्विवस्वान्' । तथा-'वृषाकपिः पावकचित्रभानू' इति सूर्यवद्विनाम्नी हैम्याम् । पुनः कासु सतीषु । वेलासु समुद्रजलवृद्धिषु सतीषु । किं कुर्वतीषु । संवर्धयन्तीषु अवकिरन्तीषु । उत्प्रेक्ष्यते-वर्धापयन्तीष्विव । वर्धापयन्तीति प्रयोगः कल्पकिरणावल्याम् । कैः । पयसां पानीयानां पृषद्भिबिन्दुभिः । काखिव। कान्तास्विव । यथा कामिन्यः क्षमाकान्तं मुक्तिकाभिर्मुक्ताफलैरुपलक्षणालाजैपि वर्धापयन्ति । 'अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः' इति रघुवंशेऽपि । 'सिता वमन्तः खलु कीर्तिमुक्तिकाः' इति नैषधे ॥ युग्मम् ॥
चन्द्रार्कचक्रद्वयभूप्रभूतक्षेत्रप्रभू रत्ननिधानवाधिः । यः कोऽपि चक्रीव चकास्त्यसंख्यद्वीपावनीपैः समुपास्यमानः ॥ १३ ॥ यो जम्बूद्वीपः कोऽप्यद्भुतवैभवः । 'जयति मधुसहायः सर्वसंसारवल्लीजननजरठकन्दः कोऽपि कन्दर्पदेवः' इति चम्पूकथायाम् । 'कोऽप्यद्भुतवैभवः' इति तहिप्पनके । चक्रीव सार्वभौम इव चकास्ति शोभते । किंविशिष्टो यः । चन्द्रो विधुरकः सूर्यस्तावेव