________________
१३ सर्गः]
हीरसौभाग्यम् । रस्य हीरसूरिवासवस्य अथ च सूरेः खीयाचार्यस्य वाचस्पतेः पुरंदरस्य खामिनः पत्कजं चरणारविन्दं विवन्दिषुर्नमस्कर्तुकामः पुरंदरः शक्रः किमागतः । पुरंदरशन्देन शक्रो मेघश्च प्रोच्यते । यदुक्तम्-'याचते वा पुरंदरम् । पूर्व लिखितमस्त्येतत् । अय वा मेघवाहनत्वात्पुरहूतोऽपि । अथ वा मेघोऽपि दिव्यखरूपस्तेन तस्य वन्दनमपि युक्तम् । यदुक्तं मेघदूते काव्ये-जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः' इति । इन्द्रस्य तु नमस्करणं प्रसिद्धमेवेति ॥
प्रवासिहृवारिधिमाथमन्थाचलोपमं वारिधरो जगर्ज। वीरावतंसालससूनशस्त्रं प्रोत्साहयन्विश्वजिगीषयेव ॥ १०१॥
प्रवासिना पान्थजनानां निजयुवतीजनवियोगव्याकुलीभवत् हृत् हृदयमेव वारिधिः समुद्रस्तस्य माथे मन्थनं. मास्थस्वस्मिन् मन्थाचलो मन्दराद्रिस्तस्योपमा सादृश्यं यस्य । 'विरहिमनस्तुदि' इति चम्पूकथायाम् । तादृशो वारिधरो मेघो जगर्ज गर्जारवं कुरुते स्म । उत्प्रेक्ष्यते-वीरावतंसं सर्वसुभटानां मध्ये शेखरायमाणं निदाघे दाघबाहुल्येन जगद्युवजनविजयक्रियाविधाचलसमालस्यभाजं तादृशं सूनानि कुसुमान्येव शस्त्राणि प्रहरणानि यस्य स कुसुमायुधः कामस्तं विश्वेषां त्रिभुवनजन्मभाजां सुरासुरन. राणां जिगीषया खवशीचिकीर्षया प्रोत्साहयन् महोद्यमयुक्तं कुर्वन्निव प्रगल्भभावो. पगतं विदधान इव ॥
पौष्पेण चापेन जये त्रिलोक्याः स्मरेण दुःखीभवतार्थितेन ।
अमोघमम्भोजभुवेव चक्रे तदर्थमाखण्डलचापचक्रम् ॥ १०२ ॥ 'अम्भोजभुवा जगत्सृष्टिकर्ता तदर्थ कंदर्पकृते । उत्प्रेक्ष्यते-अमोघं देवदानवमानवलोकेषु सर्वत्राप्यस्खलितमाखण्डलचापचक्रं शक्रकोदण्डमण्डलं चक्रे कृतमिव । किंलक्षणेन अम्भोजभुवा । पौष्पेण कुसुमसंबन्धिना प्रसूनमयेन चापेन शरासनेन कृत्वा त्रिलोक्या जये त्रिभुवनवशीकरणे दुःखीभवता कष्टं प्राप्नुवता स्मरेण मनोभवेन अ. र्थितेन याचितेन ॥ .. विश्लेषियोषाविरहोष्मशुष्यत्तनूनिहन्तुं दयितेन रत्याः।
कार्शानवं शस्त्रमिव प्रयुक्तं व्यलीलसम्योनि तडिद्वितानम् ॥ १०३ ॥ व्योम्नि गगनाङ्गणे तडितां विद्युतां वितानम् । वृन्दमित्यर्थः । व्यलीलसद्दीप्यते स्म । उत्प्रेक्ष्यते-रत्या दयितेन भी स्मरेण प्रयुक्तं प्रेरितम् । मुक्तमित्यर्थः । कार्शानवं कृशानुसंबन्धि वहिमयं शस्त्रमिव । किं कर्तुम् । विश्लेषो निजवल्लभैवियोगो विद्यते यासां ता विश्लेषिण्यो विरहिण्यस्तादृश्यो योषाः कामिन्यः तासां विरहोष्मणा प्रबलप्रियवियोगतापेन शुष्यन्तीः शोषं प्राप्नुवन्तीः । कृशीभवन्तीरित्यर्थः । तनूः शरीराणि निहन्तुं ज्वालयितुमिव ॥