________________
. १३ सर्गः] हीरसौभाग्यम् ।
५९५ उत्प्रेक्ष्यते-पितुरिन्द्रस्य वाहमुच्चैःश्रवसमारुह्याध्यास्य अनेकाः शतशो मूर्तयो देहा यस्य । वाहा अपि अनेका इन्द्रस्य विद्यन्ते। यदुक्तं रघुवंशे-'शतैस्तमश्णामनिमेघवृत्ति. भिहरि विदित्वा हरिभिश्च वाजिभिः' इति वाजिबाहुल्यम् । एतावता श्वेतनीलवर्णानामुपलक्षणादन्यवर्णसंबन्धिनोऽपि संभाव्यन्ते । अथ च जातिवाचित्वादेकवचनम् । अनेकमूर्तित्वेन जयन्तस्यारोहणाश्वा अप्यनेके जाता एंव । अथ च स्निग्धैर्मित्रैः समं निखेलन् क्रीडन् । मित्रा अप्यनेकवर्णाश्वाधिरूढाश्च संभाव्यन्ते । तादृश इन्द्रसू- नुर्जयदत्ततामेव ॥
तदा कुमारीभिरभासि भास्वन्मुक्तामणीस्वर्णविभूषणाभिः ।
इवानुजाभिः सुरराजसूनो रिरंसयोवीतलशालिनीभिः ॥ ६० ॥ .. तदा तस्मिन्व्यतिकरे भाखन्ति दीप्यमानानि मुक्कानो लघुस्थूलप्रमाणादीनां मुक्ताफलाना मणीनां करतलपद्मरागेन्द्रनीलहीरकमुख्यानां रत्नानां वर्णानां श्वेतरक्तपीतवर्णकनकानां विभूषणान्याभरणानि यासां तादृशीभिः कुमारीभिरनूढाष्टनवदशवर्षदेशीयवालिकाभिरभासि शुशुभे । उत्प्रेक्ष्यते-रिरंसया चलवयस्त्वेन क्रीडां कर्तुमिच्छया उवींतलं भूमण्डलं शालन्ति 'सेवन्ते इत्येवंशीलाभिः सुरराजसूनोर्जयन्तस्यानुजाभिलघुभगिनीभिरिव । खसुहृद्भिः समं क्रीडां कर्तुं कौतुकात्कृतानेकमूर्ति भ्रातरं जयन्तं विभाव्य तदर्शनोत्पन्नाद्वैतात्मकौतूहलाकलितरसिकमानसतया जयन्तलघुभगिन्या जयन्या अपि कृताभिः अनेकाभिमूर्तिभिरिवेत्यर्थः । अत एताः सर्वा अपि लघुभगिन्य एव ॥
परम्पराभिः पुरसुन्दरीणां राजी जनानामनुगम्यते स्म । महे मुनीन्दोः शरदीव राजमरालमाला कलहंसिकाभिः ॥ ६१ ॥ मुनीन्दोः सुरेर्महे प्रवेशोत्सवे जनानामागराफतेपुरादिनगरनागराणां राजी श्रेणी पुरसुन्दरीणां परम्पराभिः मेवातमण्डलनागरीणां पतिभिः अनुगम्यते स्म । नराणामनु नार्योऽपि प्रचेलरित्यर्थः। काभिरिव । कलहंसिकाभिरिव । यथा शरदि घनात्यये राजमरालमाला राजहंसावली राजहंसीभिरनुगम्यते ॥
भूषामणिद्योतितदिङ्मुखाभिश्चापल्यचञ्चत्कुलबालिकाभिः । बभेऽभ्रखेदाद्भुवमीयुषीभिरिवार्भकाभिर्जलबालकाभिः ।। ६२ ॥ भूषाणामलंकाराणां मणिभिर्माणिक्यः । रत्नकान्तिभिरित्यर्थः । द्योतितानि प्रकाशितानि दिशां दशानामपि हरितां मुखानि याभिस्तादृशीभिः । तथा चापल्येन चञ्चलतया चश्चन्तीभिः कुलबालिकाभिः सुजातकुमारिकाभिः बभे दीप्यते स्म । उत्प्रेक्ष्यते--अभ्रे आकाशमार्गे चिरविलसनेन बहुकालं विलासकरणेनोद्भुतखेदानिःप्रकटीभवन्निदा. झुवं भूमण्डलं प्रति ईयुषीभिरागताभिर्वालिकाभिर्लध्वीभिर्जलबालिकाभिविद्युद्भिरिव ॥
सगर्भभावं विधुना दधानाः सारखता मर्त्यनिषेव्यमानाः । तदा म रङ्गन्ति पुरस्तुरङ्गाः क्ष्मायामिवोच्चैःश्रवसोऽनुबिम्बाः ॥६३ ॥