________________
काव्यमाला।
युक्तिमदेव । किं । कुरा इति नामा व्यवहारी तस्य योऽन्ववायो वंशः । 'गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम्' इति हैमः । स एवाम्बरमाकाशं तत्र प्रकाशकत्वात्पद्मानां बन्धुरिव पद्मबन्धुर्भास्वान् । यत्तदोः संबन्धात्तस्य। कस्य । यो व्रतीन्द्रो यशोभिः स्वकीतिभिः कृत्वा दिशः सर्वा अप्याशाः सुरभीकरोति वासयति । चित्रास्पदीकरोतीत्यर्थः । क इव । गन्धसार इव । यथा चन्दनद्रुमः अमन्दैरतिबहुलैर्गन्धैः परिमलैर्दिशः सुरभयति समस्तहारेतः सुरभीकुरुते ॥ वर्णनीयस्योत्कर्षाविष्करणद्वारेण आत्मनोऽनौद्धत्यं प्रतिपादयन्कविराहपारे गिरां वृत्तमिदं व सूरेस्तनुप्रकाशा व च शेमुषी मे । प्रक्रम्य मोहादहमङ्गुलीस्तत्प्रमातुमीहे चरणं मुरारेः ॥ ६ ॥
सूरेः श्रीहीरविजययतीन्द्रस्य गिरां पारे वाचामगोचरः । 'गिरां हि पारे निषधेन्द्रवृ. त्तम्' इति नैषधे । वक्तुमशक्य मिदमिदानीतनसर्वजनप्रतीतं वृत्तं वास्ते । च पुनः तनुः स्तोकः प्रकाशो विषयो यस्या एतादृशी मे मम शेमुषी बुद्धिः क्व । तत्तस्मात्कारंणादहं मोहान्मौज्यादज्ञानाद्वा । 'सोऽहं हंसायितुं मोहाईकः पङ्गुर्यथेच्छति' इति चम्पूकथायाम् ।। मोहोऽज्ञानमिति तद्वृत्तिः । अङ्गलीः करशाखाः प्रक्रम्य प्रारभ्य। 'प्रारम्भः प्रोपतः क्रमः' इति हैम्याम् । स्थापयित्वा । मुरारेर्नारायणस्य चरणं पदम् । आकाशमित्यर्थः । प्रमातुमीहे' प्रमाणविषयं नेतुमिच्छामि । यथा कश्चिदज्ञानवान्पुमान्स्वाङ्गलीमण्डयित्वा अनन्तं नभः प्रमातुमारभते, न पुनः प्रभवति, तथा वाचां गोचरातीतं गुरुवृत्तं कर्तु प्रारब्धवानप्यहं न सम्यक्तया पूर्ण प्रणेतुं प्रभविष्णुरिति तत्त्वम् ॥ .. न तु कश्चिदपि प्रभुवृत्तं भाषितुं प्रभुर्भबेत्तदेवाह
यो वालुका हैमवतीप्रतीरे प्रमाति संख्याति च विप्लुषोऽब्धेः । ताराः पुनः पारयति प्रमातुं गुणान्गणेन्दोर्गणयेन्न सोऽपि ॥ ७ ॥
यो जनो हैमवत्या मन्दाकिन्याः। 'गङ्गा त्रिपथगा ऋषिकुल्या हैमवती' इति हैम्याम् । प्रतीरे तटे। 'तटं तीरं प्रतीरं च' इति हैम्याम् । वालुकाः सिकताकणान्प्रमाति प्रमाणयति च। पुनः-यो अब्धेः समुद्रस्य विप्लुषो जलबिन्दून्संख्याति संख्यागोचरीकरोति । पुनःयस्तारास्तारकाः प्रमातुं प्रमाणीकर्तुं पारयति समर्थोभवति । सोऽपि प्रज्ञाप्रकर्षपराभूत. पुरुहूतसूरिरपि गणस्तपागच्छस्तत्र इन्दुरिव सर्वेषामाह्लादकत्वेन इन्दुस्तस्य गच्छनायकस्य हीरविजयसूरेर्गुणाज्ञानदर्शनचारित्रशमदमादिकान न गणयेद्गणयितुं न शक्नुयात् ॥ प्रागुक्तं पुनरपि द्रढयन्स्वकीयसामर्थ्य वक्तिवृत्तं विभोर्भाषितुमप्रभुर्यज्जम्भारिसूरिस्तदहं किमीशे ।
यः शृङ्गिशृङ्गाग्रगतैर्दुरापः किं भूमिगस्तं विधुमाददीत ।। ८ ।। विभोहीरविजयसूरीश्वरस्य यद्वृत्तं चरित्रं भाषितुं वक्तुं जम्भारेः शक्रस्य सूरि