________________
काव्यमाला।
५८८
भट्टारकेन्द्रो...........
...
...
.
....
.
...
....
....
....
..
..
.
..
...." || ३३ ॥
....
....
....
....
...
.
....
....
....
..
..
....
....
.
...
...
.
.
।
.......... ॥ ३४ ॥ (युग्मम्) असौ भट्टारकाणामिन्द्रः पुनर्द्वितीयवारं पूर्वप्रस्थापनापेक्षया तूर्ण शीघ्रममुष्मान्मेदिनीपुराभिधानानगरादेतं पूर्वोक्तं वाचकवासवं विमलहोपाध्यायं पुरोऽग्रे प्रेषीत् प्रहिणोति स्म । किं कर्तुम् । क्षितीन्द्रमकब्बरराजमपि पुनरात्मना स्वेन तदीयाशयं साहेर्निजस्याकारणाभिप्रायं किमर्थमहमाकारितोऽस्मीति साहिमनःपरिणामं ज्ञातुमवबोद्धम् । किंलक्षणम्। वाचकवासवम् । श्रिया शोभया कलितो योऽसौ सीहस्तेनादिपदभूतेन राजन्ती शोभमाना विमल इत्याह्वा नाम यस्य तादृशेन विज्ञेषु विद्वत्सु उत्तंसेन शेखरेण श्रीसीहविमलप्रज्ञांशेन युक्तं सहितम्। उत्प्रेक्ष्यते-साक्षात्प्रज्ञाप्रागल्भ्यागुरुणा बृहस्पतिनेव शकोऽपि तावद्वाचस्पतिना संयुक्त एव स्यादिति । अथोपाध्यायस्योत्प्रेक्षा उत्प्रेक्ष्यते-प्रज्ञा खप्रतिभा सैवात्मदर्शी दर्पणं तत्रं प्रतिबिम्बति संक्रामतीत्येवंशीला विश्वे समस्ता विश्वेषां वा त्रयाणां जगतां पदार्थानां सार्थाः समूहा यस्य तादृशं खमात्मीयं प्रधानमिव मन्त्रिणमिव ॥ युग्मम् ॥ इति मेदिनीपुरागमनफलपार्श्वनाथयात्रावाचकप्रस्थापनं च ॥
प्रतिष्ठमानस्य ततो व्रतीन्दोः पदे पदे पौरपरम्पराभिः । महामहश्रीः समतानि भानोरहःसमूहैरिव शारदीनैः ॥ ३५ ॥ .
ततो मेडतानगरात्प्रतिष्ठमानस्य प्रस्थानं कुर्वतः । प्रचलत इत्यर्थः । व्रतीन्दोः सूरेः पदे पदे स्थाने पुरनगरमामादौ पौराणां नागरिकाणां परम्पराभि|रणीभिः महामहश्रीरतिमहीयसी उत्सवानां शोभा समतानि निर्मिता। कस्येव । भानोरिव । यथा शारदीनैः शरत्कालसंबन्धिभिः अहःसमूहैदिनवृन्दैः सूर्यस्य पदे पदे गरीयसी महसां किरणानां श्रीः संतन्यते। महः किरणवाची शब्दप्रभेदे नाममालायामकारान्तोऽप्यस्ति । यथा-'महं तु महसा साकम्' इति । तथा सकारान्तोऽप्युत्सववाची शब्दोऽस्ति । यथा नैषधे–'एनं महखिनमुपैहि सदारुणोचैः' इति । 'महखिनमुत्सववन्तम् । महम्शब्दः सकारान्तोऽप्यस्ति' इति तद्वृत्तिः । तेजखिनं वा ॥
फतेपुरं सागरमेखलाया वखोकसाग़मिव गन्तुमिच्छुः । यावत्स साझां नगरं पवित्रीकरोति वाचंयमचक्रवर्ती ॥ ३६॥ . भूपं प्रति प्राक्प्रहितोऽथ तावच्छ्रीवाचकेन्द्रो विमलादिहर्षः । सैन्येन सैन्येश इवानुयातो विदग्धवृन्देन फतेपुरेऽगात् ॥३७॥(युग्मम्)