________________
५८४
काव्यमाला।
भगवन्तं खतातमेवोद्दिश्य निर्मापितः । अथ च परसमयानुसारितया वृषाङ्कस्येश्वरस्य मन्दिरमेवोत्तीर्ण शंभोः कैलासवासित्वादित्यप्यर्थध्वनिः । किंभूतम् । पाश्चालिकानां विविधरचनाचारिमापूर्वपुत्रिकाणां प्रौढानां प्रगल्भानां सुरासुरनरोरगगणमनोहारिणां विलासानां विभ्रमाणां वीक्षया दर्शनेनैव हृणीयमानो लजां प्राप्नुवन् । 'त्वयानपत्या धरणी हृणीयते' इति नैषधे । 'हृणीक् लजायाम् कण्डादिधातुः । युधवानां सर्वेषामपीन्द्राणामवरोधा अन्तःपुराणि यत्र यस्माद्वा ॥
ध्रुवं दधानं चतुराननी च हिरण्यगर्भं भवसूदनं च । पद्मासनं स्वःसदुपास्यमानं पतिं प्रजानामपरं किमुक्म् ॥ २० ॥
चैत्यमुत्प्रेक्ष्यते-उर्ध्या भूमीभुवने अपरमेकः ब्रह्मलोके सृष्टिकर्तास्ति अन्यं प्र. जानां पतिं धातारम् । किंभूतं प्रजानां पतिम् । ध्रुवं नित्यस्थायुकं स्थिरं च । पुनः किं. कुर्वाणम् । दधानं धारयन्तम् । काम् । चतुराननीम् । चतुर्णा पूर्वपश्चिमदक्षिणोत्तरदिग्वर्तिनामाननानां वक्राणां समाहारश्चतुराननी तां चत्वारि मुखानि बिभ्राणम् । चतुर्मुखत्वात् । पुनः किंभूतम् । हिरण्यं स्वर्ण गर्ने मध्ये यस्य । प्रायः प्रासादसरोवापीकूपादो जीर्णोद्धारार्थ तत्खामिनो निधीक्षिपन्तीति स्थितिः । यदुक्तं चम्पूकथायाम्-'कुपि. तकपिकुलाकुलितलकेश्वरकिंकरा इव भमकुम्भकर्णघनखापाः कूपाः' । 'भग्नाः कुम्भानां घटानां कर्णाः काना इति प्रसिद्धा यत्र । तथा घना: प्रचुराः खाः खकीयाः पातालमूलोत्था न तु प्रवाहादिना प्रविष्टा आपः पानीयानि येषु । अथ च घनखा बहुद्रव्या आपो जलानि येषु । प्रायो वापीकूपादौ जीर्णोद्धारार्थ निधिं क्षिपन्तीति स्थितिः । पक्षे भगः कुम्भकर्णस्य रावणानुजस्य घनखापो घोरनिद्रा यैः' इति चम्पूटिप्पनके । च पुनः केंभूतम् । भवस्य संसारस्य सूदनं निर्नाशकम् । पद्मानां मण्डपान्तराले अन्यत्र वा आकृतयः पूजादिभिर्वा आसनं स्थानम् । पुनः किंभूतम् । खःसद्भिः अधिष्ठातृदेवैर्नमनक्रीडागतैर्वी सुरैरुपास्यमानं सेव्यमानम् । पक्षे ध्रुवनामा । चतुर्भिर्मुखैर्युक्तः हिरण्यगर्भनामा भवान्तकृदभिधानः पद्ममरविन्दमासने पीठे यस्य । सुरश्रेष्ठत्वाद्देवसेव्यः ब्रह्म ॥ इति सप्तभिरादिकुलकम् ॥
चातुर्गतीयातिमहान्धकूपोद्दिधीर्षयाशेषशरीरभाजाम् । मूर्तीश्चतस्रः कलयन्निवास्मिन्मुनीन्दुनादर्शि युगादिदेवः ॥ २१॥ मुनीन्दुना सूरिणा अस्मिन् धरणसंघपतिप्रासादे युगादिदेवः श्रीआदिनाथः अदर्शि लोचनगोचरीकृतः। किं कुर्वन् । चतस्रः चतुःसंख्याका मूर्तीः प्रतिमाः कलयन् दधत् । उत्प्रेक्ष्यते-चातुर्गतीयाश्चतस्रस्तिर्यकमनुजनिर्जराणां गतयः उत्पत्तिस्थामानि तत्संबन्धिन्यो या अर्तयः शारीरिक्यो मानस्यो वा पीडास्ता एव महान्तोऽगाधा अन्धकूपास्तपोनिचिता अवटास्तेभ्य उद्दिधीर्षया उद्वर्तुमिच्छया इव । केषाम् । अशेषाणां समस्तानामपि शरीरभाजामादज्ञानादन्धकूपान्तःपततां भविकजनानाम् ॥