________________
१८२
काव्यमाला |
श्रीतातपादाः श्रीहीरविजयसूरिचरणारविन्दाः पितृपादाश्च प्रमोदादानन्दोदयात्प्रणता नमस्कृताः। किं कृत्वा । सार्थाधिपेनेव सार्थपतीभूतेन सुतेनेव पुत्रेणेव त्राक् पूर्वं गुर्जरमालवानां मध्ये वर्तमाना वागडाः । एतावता गुर्जर कच्छमध्यवर्तिनो वागडा निषिद्धाः । तथा अवन्तयो मालवा:, विराटा: मालवदक्षिणान्तरालशालिनो 'वइराड' इति प्रसिद्धाः, तथा खाना लाटदक्षिणवर्तिनः, तथा महा इति पदमादौ येषां तादृग्विधा राष्ट्राः । महाराष्ट्राः इत्यर्थ: । 'मरहड' इति प्रसिद्धाः । इत्यादिध्वपरेषु गुर्जरापेक्षया अन्येष्वपि म ण्डलेषु देशेषु सातं सुखं यथा स्यात्तथा विहृत्य विहारं कृत्वा द्रव्योपार्जनकृते बहुषु जनपदेषु व्यापारार्थं भ्रान्त्वा च पुनर्बहूननेकान् लाभान्पुण्यान्यनेकधनानि चोपा अर्जयित्वा । गृहीत्वेत्यर्थः ॥ युग्मम् ॥
विभूषयद्विन्ध्यधराभृतोऽष्टापदस्य साकेतमिवोपकण्ठम् ।
स वाचकेन्द्रानुगतस्ततः श्रीवतीश्वरो राणपुरं बभाज ॥ १३ ॥
ततो वाचकागमनानन्तरं वाचकेन्द्रेण कल्याणविजयोपाध्यायेनानुगतः श्रिया भट्टारकलक्ष्म्या कलितो व्रतीश्वरः सूरिः राणपुरं नगरं बभाज श्रितवान् । पुरं किं कुर्वत् । विन्ध्यधराभृतो विन्ध्याचलस्योपकण्ठं समीपं विभूषयदलंकुर्वाणम् । किमिव | साकेत - मिव । यथा अष्टापदस्य कैलाशशैलस्य समीपमयोध्या अलंकुरुते ॥ अथ वरणविहार:
विन्ध्याचलं तुङ्गतया वयस्यभावं भजन्तं प्रविभाव्य विद्मः ! गिरीशशैलं मिलितुं समेतं स प्रेक्षतास्मिन्धरणस्य चैत्यम् ॥ १४ ॥
स सूरिरस्मिन् राणपुरे धरणनामव्यवहारिणः चैत्यं प्रासादं प्रेक्षत व्यालोकते स्म । अत्रार्थे वयमेवं विद्मः जानीमः । तुङ्गतया अत्युच्चैस्तरत्वेन वयस्यभावं मित्रतां भजन्तमाश्रयन्तं विन्ध्याचलं प्रविभाव्य विलोक्य । विज्ञायेत्यर्थः । मिलितुं समेतमागतं समीपे समेतं गिरीशशैलं कैलाशपर्वतमिव । अत्र विद्म इवार्थे ॥
विनिद्रनीलाञ्जनिकानमेरुवनीविनीलाल कशालमाने ।
मौलौ प्रणीतं द्रुहिणेन चान्द्रचूडामणीं किं धरणीन्दिरायाः ॥ १५ ॥ चैत्यं पुनरुत्प्रेक्ष्यते - धरणीन्दिराया भूमीमण्डललक्ष्म्या मौलौ मस्तके द्रुहिणेन विश्वसृजा प्रणीतं विरचितं चान्द्राणां चन्द्रकान्तरत्नानां चूडामणीमिव शिखारत्नमित्र । किंभूते मौलौ । विनिद्रा विस्मेरा या नीलाञ्जनिकास्तमालतरवः । 'नीला अनिका कुसुमकान्तिनि तमसि' । तथा 'निलाञ्जनिका कुसुमकान्तयः किरातयुवतयः' इतीदं द्वयमपि चम्पूकथायाम् । 'नीलाञ्ज निकास्तमाला:' इति तडिप्पन के । कृष्णकान्तिवृक्षविशेषास्तेषां वनी काननं तद्वत्ते एव नीला अलकाः केशास्तैः कृत्वा शालमाने शोभमाने ॥
भूमीन्द्रकुम्भाभिधराणकस्य स्तम्भान्दधानं निजमण्डपान्तः । अनेकपस्फूर्तिभुवः समज्ञास्तम्भानिवैताञ्छिवगोत्रजैत्रान् ॥ १६ ॥