________________
११. सर्गः ]
हीरसौभाग्यम् ।
अथार्बुदाचलतीर्थंकृन्नमनानन्तरं सूरिभूमान् सूरिराजोऽर्बुदादेर्हिमाद्रिनन्दनावनीधरादवतीर्य अवरुथ उपत्यकामागत्य भूमीं पृथिवीपीठं विभूषयामास शोभयति स्म । किं कुर्वाणः । वचसां वचनानां तरङ्गैरस्खलित प्रचारनिः सरद्वाक्कल्लोलैत्रिजगत्रिभुवनजनं पुनानः पवित्रीकुर्वाणः । क इव । रय इव । यथा देवनद्याः गङ्गायाः प्रवाहो हिमाद्रेतुहिनाचलादवतीर्य अधः समेत्य भूमीं पुनीते । सोऽपि अस्खलित कल्लोलैत्रिजगत्रिस्रोतस्त्वात्रिभुवनं पावनं कुर्वाणः ॥
यस्यां द्विपेन्द्रैः स्वमदप्रवाहैरारामिकौधैरिव वारिपूरैः ।
१७९.
वृक्षा अवर्ध्यन्त विभुर्व्यहार्षीत्तत्रार्बुदाभ्यर्णवसुंधरायाम् || २ ||
विभुः सूरिस्तत्र तस्यार्बुदादेरभ्यर्णे समीपे या वसुंधरा भूमिस्तस्यां व्यहार्षीत् विहरति स्म । तस्य कस्याम् । यस्यामर्बुदाभ्यर्णभूमौ द्विपेन्द्रैर्मत्तगजराजैः स्वेषामात्मनां मदानां दानवारीणां प्रवाहैरथीत्कपोलेभ्यो निःसृत्य पृथिवीपीठे पतद्भिः वृक्षा द्रुमा अवर्ध्यन्त सिक्ताः सन्तः वृद्धिं नीयन्ते स्म | कैरिव । आरामि कौघैरिव । यथा वनपालवृन्दैर्वारिपूरैरभिषिञ्चनजलप्लः पादपा वृद्धिं प्राप्यन्ते ॥
मित्रं महिम्ना किमनुव्रजन्तं स्वदीर्घभावेन सहायवत्तम् । इवाचलं शैवलिनीप्रवाहः क्रमान्मुनीन्द्रोऽर्बुदमुलल ॥ ३ ॥
मुनीन्द्रः सूरिः क्रमाद्विहारपरिपाठ्या अर्बुदं पर्वतमुल्लल अतिक्रान्तवान् । क इव । शैवलिनीप्रवाह इव । यथा शैवलान्यनवरत प्रबल प्रसरत्पयः प्रवाद्दत्वात्प्रादुर्भूतप्रचुरबहलसेवालजालानि यस्यां सा शैवलिनी नदी तस्याः प्रवाहः पयःपूरः अचलं मार्गगतगिरिमुल्लङ्घते । अर्बुदमुत्प्रेक्ष्यते — महिना माहात्म्येन गुरुतया किं मित्रं सखायमिव । अत एवोत्प्रेक्ष्यते - सहायवत् अभिजनमिव । स्वस्यात्मनो दीर्घभावेन अत्यायामतयातिलम्बतया अनुव्रजन्तमिव पृष्ठे समायान्तमिव । यथा सहायोऽपि प्रस्थित पुंसोऽनुयाति । अत्र किमिति लालाघण्टान्यायेन उभयत्रापि योज्यते । द्वयोरप्युत्प्रेक्षयोः संयोजनीयमिति ॥
प्रतिष्ठमानः पुरतो व्रतीन्दुर्भूषामनैषीच्छिवपूः समीपम् ।
स्वपादसंस्पर्शनतः पयोजकुञ्जं यथा पङ्कजिनीविवोढा ॥ ४ ॥
पुरतोऽग्रतः प्रतिष्ठमानः प्रचलन् व्रतीन्दुः मुनिचन्द्रः सूरिः स्वस्यात्मनः पादयोश्वरणयोः संस्पर्शनतः शिवपुर : श्रीरोहिण्या नगर्याः समीपं पार्श्वप्रदेशं भूषां शोभामनैश्रीत् प्रापयामास । क इव । पङ्कजिनीविवोढेव । अत्र यथा इवार्थे । यथा कमलिनीरमणो भानुमान् स्वेषां पादानां किरणानां संस्पर्शनतः संपर्कात् संश्लेषात्पयोजानां क - मलानां कुआं काननं भूषां लम्भयति विकाशलक्ष्मीं नयति ॥
जनारवैरागमनं मुनीन्दोस्ततः सुरत्राणनृपो निपीय । कलापिकेकाभिरिवाम्बुदस्य नभोम्बुपः संमदमेदुरोऽभूत् ॥ ९ ॥