________________
५७६
काव्यमाला।
असूयता शुभ्रिमविभ्रमाय युयुत्सु यच्चैत्यमचण्डभासा । विभर्ति विद्वेषिजिगीषयताममोघशक्ति किमु दण्डदम्भात् ॥ १२२ ॥
यच्चैत्यं वस्तुपालकारितप्रासादः विद्वेषिणां वैभवेन वस्पर्धिनां जिगीपया पराभवितुमिच्छया । उत्प्रेक्ष्यते-दण्डस्य ध्वजनियन्त्रणयप्टेर्दम्भात्कपटात् एतां प्रत्यक्षाममोघा कापि न निष्फलीभवन्तीं शक्तिमायुधविशेषं लोहमयीं 'सांगि'नाम्रा प्रसिद्धां बिभर्ति दधतीव । किं कर्तुमिच्छुः । चैत्यं युयुत्सु योडुमिच्छु । केन । अचण्डमासा चन्द्रभासा. समं किं कुर्वता चन्द्रेण । असूयता ईर्ष्या कुर्वता । केन । शुभ्रिमविभ्रमाय खश्वैत्यशोभायै । 'क्रुधद्रुहेासूयार्थानां यं प्रति कोपः । क्रुधाद्यर्थानां योगे यं प्रति कोपः स संप्रदानसंज्ञः । इति चतुर्थी विभ्रमायेत्यत्र' इति प्रक्रियाकौमुद्याम् ॥
यच्चान्द्रचैत्योपरि शातकौम्भः कुम्भो विभूषां बिभरांबभूव । सुधासरःसंभ्रमतः समेतो रथाङ्गनामा किमु रन्तुकामः ॥ १२३ ॥ . यदेव चन्द्रकान्तमणीप्रणीतप्रासादस्तत्नुल्यो विहारस्तस्य शातकौम्भः वर्णमयः कुम्भः कलशो विभूषां शोभां विभरांबभूव । उत्प्रेक्ष्यते सुधासरसः पीयूषपूर्णपद्माकरस्य संभ्रमतो धिया समेतः समागतः रन्तुं जलादिक्रीडां कर्तुं कामोऽभिलाषो यस्य तादृशो रथाङ्गनामा चक्रवाक इव ॥
यद्वैजयन्त्या सितिमश्रिया स्वःपाथोधिपत्नी गमिता विगानम् । निम्नं व्रजन्ती त्रपयासिताजैः श्यामीकृतास्येव जडाशयासीत् ।। १२४ ॥ यस्या वस्तुपालवसतेर्वैजयन्त्या पताकया का सितिमश्रिया स्वश्वैत्यस्य लक्ष्म्या साधनेन कृत्वा स्वः खर्गस्य पाथोधेः समुद्रस्य पत्नी जाया एतावता खर्गगङ्गा सा विगानं वचनीयतां धिक्कारभावं गमिता संप्रापिता सती । उत्प्रेक्ष्यते-जडाशया किंकर्तव्यतायां विमूढमानसा आसीद्वभूवुरिव। किं कुर्वन्ती। त्रपया खहृदयान्तरुदमन्दाक्षण निम्नं नीचैर्मन्दं मन्दं वा व्रजन्ती गच्छन्ती । पुन: किंभूता। असिताब्जः नीलोत्पल: कृत्वा श्यामीकृतास्या कृष्णं विहितं मुखं यया । यो लजितः कथंचित्स्यात्स निनं मन्द प्रचलति । श्यामाननः किंकर्तव्यानभिज्ञः स्यादेव ॥
तं रैवतोर्वीधरवत्पवित्रीचिकीर्षयेवार्बुदमभ्युपेतम् । निरीक्ष्य तस्मिन्नयनाभिरामं ननाम शैवैयजिनं यतीन्द्रः ॥ १२५॥ यतीन्द्रः सूरिस्तस्मिन् वस्तुपालविहारे शिवायाः समुद्रविजयराजपत्न्याः अपत्यं पुत्रः शवेयः स चासौ जिनश्च तीर्थंकरस्तं श्रीनेमिनाथं ननाम प्रणमति स्म। किं कृत्वा । निरीक्ष्य खलोचनगोचरीकृत्य अर्थान्नेमिनाथम् । किंभूतम् । नयनयोरभिरामं हृदयनय. नयोहारिणम् । पुनः किंलक्षणं तम्। व्यावर्णितखरूपमवुदमर्बुदाचलमभ्युपेतं समागतम् उत्प्रेक्ष्यते-पवित्रीचिकीर्षया पावनीकर्तुमिच्छयेव । किंवत् । रैवतोवीधरवत् यथा उजयन्तपर्वतः पूर्व पावनीकृतस्तथैनमपीत्यर्थः ॥ इति वस्तुपालवसतिवर्णनम् ।