________________
६७४
काव्यमाला।
चरितसातानन्दादिप्राप्त्या अतिशायी सर्वोत्कृष्ट उदयो यत्र तादृशो मोक्षः स एव पयोरुहं पद्म तस्योदरं मध्यं तत्र विनोदो विलासस्तत्र पुष्पव्रतो भ्रमरः तत्संबुद्धौ । पुनरम्बुजासनो विधाता तद्वत्स्फुटीकृतः प्रकटितो विशिष्टो मोक्षमार्गाव्यभिचारी सृष्टे रचनायाः क्रमः परिपाटी येन तत्संबुद्धिः ॥ ।
जय प्रमथितान्तराहितपताकिनीनायको
ल्लसत्कनककेतकीकमलगर्भगौरद्युते । भवाम्बुनिधिनिष्पतन्मनुजयानपात्रोच्छुस
द्यशःसुमसुगन्धितत्रिभुवनात्र जीयाश्चिरम् ॥ ११६ ॥ हे प्रमथिता निर्दलिता आन्तरा अन्तर्भवा अन्तरङ्गा अहिताः परमप्रत्यनीकभूताः कर्मादयो रागद्वेषकषायादयोऽष्टादश दोषा वा एव पताकिनीनायकाः सेनापतयो भूमीपाला वा येन तस्य संबुद्धिः । तथा हे उल्लसतामुल्लासं भजतां विस्मेरीभवतां कनकानां काश्चनसंबन्धिनां स्वर्णमयानां केतकीनां कमलानां च यो गर्भो मध्यभागस्तद्वगौरी पीता। 'गौरः श्वेतपीतयोः' इत्यनेकार्थः । द्युतिः कान्तिर्यस्य तत्संबुद्धी । त्वं जय । पुनहें भवः संसारः स एव दुस्तरत्वादम्बुनिधिः समुद्रस्तत्र निष्पतन्तो निरवलम्बत्वेन नितरां मजन्तो बृडन्तो ये मनुजा मानवास्तेषां त्राणार्थ यानपात्र प्रवहण । तथा उच्छसत् विकसत् प्रकटीभवद्यशः कीर्तिरेव सुमं पुष्पं तेन । तत्परिमलेनेत्यर्थः । मुगन्धित वासितं सुरभीकृतं त्रिभुवनं विश्वत्रयं येन तत्संबोधने । हे ऋषभदेव । अत्रावुदपर्वते भूषणीभवन् चिरं विगलितावधिसमयं जीया विजयी भूयास्त्वम् ॥ चतुभिः कुलकम् ॥ इति ऋषभदेवस्तुतिः ॥ ।
कैलासलक्ष्मीतिलकायमानमिवेन्द्रभूतिव्रतिनां बिडौजाः । तमित्यभिष्टुत्य मुदं दधानः प्रणेमिवान्प्राञ्जलिरादिदेवम् ॥ ११७ ॥ व्रतिनां मुनीनां बिडोजाः पुरहूतः सूरिः प्रकृष्टोऽञ्जलिर्भालस्थलमिलितं पाणिपद्मद्वयं यस्य स आदिदेवमृषभखामिनं प्रणेमिवान् नमस्करोति स्म । किं कुर्वाणः । मुदं प्रमोदं दधान: बिभ्राणः । किं कृत्वा । तमादिदेव मिति पूर्वोक्तप्रकारेणाभिष्टुत्य स्तुत्वा । क इव । इन्द्रभूतिरिव । यया गौतमखामी कैलासलक्ष्म्या अष्टापदश्रियास्तिलकायमानं ललामवदाचरितमाचरन्तं वा नाभेयं जगचिन्तामण्यादिस्तुतिभिः अभिनोनूय प्राञ्जलि: प्रणमति स्म ।
आनन्दवृन्दारकनिर्झरिण्यां निमज्य जम्भद्विषतः करीव । निरस्तनिःशेषरजाः स सूरिनिरीयिवाञ्श्रीजिनराजधाम्नः ॥ ११८ ॥ स सूरिः श्रिया जगदद्वैतशोभया युक्ताबिनराजस्यादिनाथस्य धान्न: सौधात् विमलवसतेर्निरायिवान् ने गाम । किंलक्षणः । निरस्तं क्षिप्तं दूरीकृतं निःशेषं समस्तं र.