________________
५६२
काव्यमाला। स्फीता वर्धमानाः कीर्तर्यशसः स्तवाः स्तुतयो यया । पुन: किंभूता । आमोदेन पुष्पा. दिपरिमलेन प्रमोदेन वा मेदखिनी पुष्टा प्रोद्भतपुलककोरकाकलिता । पुनः किंभूता । सस्यैः खफलभारेण नताङ्गी नम्रीभवत्तनुयटो । पुनः किंभूता । लता कुसुमितफलितवल्ली एव विग्रहः शरीरे यस्याः सा ॥ यत्र कल्लोलयन्नैककल्लोलिनीर्मन्दमान्दोलयन्स्मेरदुर्वीरुहान् । . खर्णदीपद्मपौष्पैः करम्बीकृतो गन्धवाहोऽनुगामीव तं भेजिवान् ॥१७॥ . गन्धवाहः । गन्धं कुसुमादीनां मृगमदादीनां वा सौरभ्यं वहते धारयतीति गन्धवाहो वायुः पुरुषविशेषणं वा । यत्र पर्वतेऽनुगामीव सेवक इव तं हीरसूरि भेजिवान् सेवते स्म । वायुश्च त्रिधा वर्ण्यते-शीतो, मन्दः, सुरभिश्च । तदेव त्रैविध्यं दर्शयति । किं कुर्वन् गन्धवाहः । नैका अनेकस्थानस्थायिनी: कल्लोलिनीस्तरङ्गिणी: कल्लोलयन् । खरंहःप्रावल्येन कल्लोलमालाकलिताः कुर्वन् । एतेन शीतलः । पुनः किंभूतः । मन्दं . शनैः स्मरतो विजृम्भमाणान् । कुसुमितानित्यर्थः । उवामहान् विविधवृक्षान् आन्दोलयन् तरलीकुर्वाणः । एतेन मन्दः । घनगहनानोकहास्फालनेन मन्दीभूत इत्यर्थः । पुनः किं. भूतः । वर्णद्याः पर्वतस्याभ्रंकषत्वेनात्युच्चस्तरत्वाद्गगनगङ्गायाः पद्मान कमलानां पौष्प रजोभिः करम्बीकृतो व्याप्तः । एतेन सुरभिः ।
कुत्रचित्तोरणस्रग्विलासश्रियं बिभ्रति व्योमसंचारिणः सारसाः । सिद्धिपुर्या यियासोः पुरस्तात्प्रभोविश्वकāव मङ्गल्यमाला कृता ॥७॥ कुत्रचित्कस्मिंश्वनार्बुदशैलप्रदेशे व्योम्नि आकाशे संचरन्त्युडीयमाना गच्छन्तीत्येवं. शीला गगनगामिनः सारमाः पक्षिविशेषाः प्रसिद्धाः पक्षिणस्तोरणस्रज: तोरणमालाया विलासश्रियं लीलालक्ष्मी बिभ्रति धारयन्ति . । उत्प्रेक्ष्यते-सिद्धिपुर्यो निर्वृतिनगयो यियासोर्गन्तुमिच्छोः प्रभोहीरसूरीन्द्रस्य पुरस्तादग्रतः विश्वका सर्ववस्तुविधायिना विधिना कृता विहिता मङ्गल्यमाला वन्दनमालिकेव । जगत्का वा रचितेति शेषः ॥
कापि झाङ्कारिणो निर्झरान्तःप्लवाः प्लावयन्ति स्म तत्पर्वतोपत्यकाम् । सिद्धसिन्धुर्नभस्तो निरालम्बना निष्पतन्तीह क्लुप्तावलम्बा किमु ॥७९॥ क्वापि तुप्रचित्स्थाने झाकार इति शब्दोऽस्त्येष्विति झाङ्कारिणः । निर्झराणां ध्वनेाकार इति संज्ञा । यदुक्तं पाण्डवचरित्रे-'झरनिझरझाकारी' इति । सशब्दा निर्झराणामम्भःप्लवाः पयःप्रवाहास्तत्पर्वतोपत्यकामधंदाचलशिखराधोभूमिकां शिखरापेक्षयोपत्यकां प्लावयन्ति स्म निर्भरं भरन्ति स्म । उत्प्रेक्ष्यते-निरालम्बना निर्गताधारा अत एव नभस्तो गगनाङ्गणादालम्बनराहित्यानिष्पतन्ती अधोत्रश्यन्ती सती । पुनरिहार्बुदाचले कुप्तो निर्मितोऽवलम्ब आश्रयो यया तादृशी सिद्ध सिन्धुः किमु गगनगनेव । निर्झरपयसामत्यौज्वल्याद्गगोत्प्रेक्षा ॥