________________
१२ सर्गः]
हीरसौभाग्यम् ।
५५९
णेऽपि स्थातुमेकत्र स्थितिं विधातुं यथा एकया मूर्त्या प्रयागे यमुनया सह तिष्ठामि तथा अपरयापि मूर्त्या आकाशेऽपि यमुनया सहाहं वसामीति विचिन्त्य मित्रपुत्री कालिन्दीनाम्नीं सह सार्धमुपादाय गृहीत्वा ॥ रोहिणीरागिभावान्निजत्यागिनं कान्तमेणाङ्कमुत्सृज्य कोपाकुला । औषधीसंततिनिर्मिमीतेऽनिशं तापसीवत्तपांसीव यस्मिन्गिरौ॥ ६७ ॥ औषधीनां विधुवधूनाम् । चन्द्रस्य तत्पतित्वात् । 'रोहिणीद्विजनिशौषधीपतिः' इति हेमचन्द्रवचनात् । संततिः श्रेणियस्मिन् गिरौ अर्बुदपर्वते। उत्प्रेक्ष्यते-तापसीव परिब्राजिकाराजीव अनिशं निरन्तरं तपांसि शीतोष्णतापनिरशनादिकष्टानि निर्मिमीते करोतीव । किंभूता । कोपाकुला रोषोद्रेककलुषीकृताशया । किं कृत्वा । रोहिण्यां दक्षागजायां रोहिणीनाम्न्यां खसपत्न्यां पत्न्यां विषये रागिभावादत्यन्तानुरकाशयत्वान्निज. स्यात्मनस्त्यागिनं त्यजनशीलमेणाङ्कं चन्द्रमसं कान्तं खभर्तारमुत्सृज्य त्यक्त्वा ॥
भासते शातकुंम्भाश्मगर्भोपलश्रेणिसंक्लप्तशृङ्गद्वयं कुत्रचित् । यस्य विश्वातिशायिश्रियं वीक्षितुं मेरुविन्ध्याविवाल्पीभवन्तौ स्थितौ ६८ कुत्रचित्प्रदेशे शातकुम्मानां काश्चनानां तथा अश्मगर्भोपलानां मरकतरत्नानां च श्रेणिभिः सम्यक्प्रकारेण कृप्तं रचितं देवादिना कौतुकाद्विनिर्मितं शृङ्गद्वयं शिखरद्वन्द्वं भासते दीप्यते । उत्प्रेक्ष्यते-यस्य हिमाद्रिनन्दनगिरेः विश्वेभ्यः समस्तपर्वतेभ्योऽपि विश्वेभ्यो जगद्भयो वा अतिशायिनीमत्यभ्यधिकां श्रियं शोभां लक्ष्मी वा वीक्षितुं खदृग्गोचरीकर्तु स्थितावागत्य वसन्तौ तथा अल्पीभवन्तौ वपुषा लघूभवन्तौ खशरीरे खल्पे प्रणीय मेरुविन्ध्यौ खर्णाचलजलबालकशैलाविव । 'विन्यस्तु जलबालकः' इति हैम्याम् ॥ बिभ्रतो वाहिनीर्यस्य वार्धिप्लवाप्लाविनीः श्रीपराभूतभूमीभृतः । तिष्ठतः क्षोणिमाक्रम्य पूषार्चिषा वेदगर्भः करोतीव नीराजनाम् ॥१९॥ वेदगी ब्रह्मा यस्यार्बुदभूमीभृतः पूषा भाखांस्तस्यार्चिज्योतिरथ च पूष्णोभीनोस्तुल्यो जाज्वल्यमानत्वाटुःसहोऽचिनिधूमधूमध्वजस्तेन नीराजनामारात्रिकां करोतीवेत्युत्प्रेक्ष्यते--अन्यस्यापि राज्ञ आरात्रिकोत्तारणं क्रियते । यथा कस्यापि भूभृतो वेदगों ब्राह्मणः अर्थात्पुरोधाः । वेदगर्भ इति साभिप्रायं नाम तेन वेदमन्त्रोचारपूर्वकं दीनवहिना नीराजनां निर्मिमीते । यस्य किं कुर्वतः । क्षोणि भूमीमण्डलमाक्रम्याधिष्ठाय सर्वात्मनाभिव्याप्य तिष्ठतः वसतः स्थितिं कुर्वतः । पुनः किंभूतस्य । वार्थीनां चतुःसमुद्राणां प्लवान् वारिपूरानाप्लावयन्यतिकामन्ति आक्रामन्ति चेत्येवंशीला वाहिनीनदीः सेनाश्व बिभ्रतः । किंभूतस्य । श्रिया आत्मीयया शोभया चतुरङ्गचक्रादिवैभवैः कृत्वा पराभूता विजिताः खपादपद्ममधुकरीकृता भूमीभृतः पर्वता नृपाश्च येन सः ॥