________________
५५३
१२ सर्गः] हीरसौभाग्यम् । कारयामास । इत्यन्तचतुर्दशभिः कुलकम् ॥ इत्यर्जुनकिरातपतिप्रमदानां विविधविलासचेष्टाखरूपवर्णनम् ॥ जंगमं सार्वभौमं किमुर्वीभृतां सूरिशीतांशुमायान्तमालोक्य तम् । अर्जुनाम्भोजनेत्रास्तदङ्किद्वयं नेमुरानन्दसान्द्रीमवन्मानसाः ॥ १९ ॥
अर्जुननाम्नः पल्लीपतेरम्भोजनेत्रा नलिननयनाः कान्तास्तस्य हीरसूरेरब्रिद्वयं चरणयुगलं नेमुः प्रणमन्ति स्म । किंभूनाः । आनन्देन प्रमोदेन कृत्वा सान्द्रीभवन्ति निबि. डानि जायमानानि मानसानि मनांसि यासाम् । किं कृत्वा । सूरिध्वाचार्येषु ज्योतिश्चकायमानेषु मध्ये शीतांशुं सुधाकरं चन्द्रमायान्तमात्ममन्दिरेषु समागच्छन्तमालोक्य खनयनयोर्गोचरीकृत्य । दृष्लेयर्थः । उत्प्रेक्ष्यते-जंगमं संचरन्तं वसुधाविहरणशीलमुर्वीभृतां पर्वतानां सार्वभौमं चक्रवर्तिनमिव । मेरुगिरिमिव ॥ कामिनीभिः किराताधिभर्तुस्ततो मौक्तिकौघैरवाकीर्यत श्रीप्रभुः । सोऽप्यवैश्वस्त्यलक्ष्मीमिवानश्वरीं खेन ताभ्यो ददौ धर्मलाभाशिषम् ५० ततो वन्दनानन्तरं किरातानां पुलिन्द्राणामधिभर्तुः खामिनः अर्जुनस्य कामिनीमिः कान्ताभिः मौक्तिकौघैर्मुक्ताफलमण्डलै: श्रीप्रभुः श्रीमान् हीरविजयसूरिः अवाकीर्यत वर्धाप्यते स्म । पुनर्वर्धापनानन्तरं सोऽपि श्रीप्रभुः खेनात्ममुखेन ताभ्यः किरातेन्द्रकामिनीभ्यः धर्मलाभमेवाशिषं मालशंसनमाशीर्वादं ददा दत्तवान् । उत्प्रेक्ष्यते-अनश्वरी शाश्वतीमवैश्वस्त्यस्य अर्थात्तासामेवार्जुननारीणामवैधव्यस्य लक्ष्मीमिव । 'विश्वस्ता विधवा समे' इति हैम्याम् । तथा 'नलात्ववैश्वस्त्यमनाप्तुमानता' इति नैषधे ॥
देशनाम्भोदधारां सुधाया इव ज्येष्ठजामि मुनीन्द्रस्य पीत्वादरात् । भिल्लभर्तुर्जजम्भे मनःकानने बोधिफुल्ललताश्लेषिहर्षद्रुमः ॥ ११ ॥ भिल्लभर्तुरर्जुननानो भिल्लानां शबराणां भर्तुर्नायकस्य पल्लीपतेर्मनो मानसमेव काननं वनं तत्र बोधिः सम्यक्त्वमेव फुल्लन्ती विकसन्ती लता वल्ली तया आश्लेष आलिङ्गनमस्त्यस्य एतादृशो हर्षद्रुमः प्रमोदपादपः जजम्भे प्रादुर्भवति स्म । किं कृत्वा । मुनीन्द्रस्य हीरसूरेर्देशना धर्मकथा सैव अम्भोदधारा मेघपयोवृष्टिस्तामादरादेकाप्रचिततया पीत्वा निपीय सादरं श्रुत्वा । उत्प्रेक्ष्यते-सुधायाः पीयूषस्य ज्येष्टजामि वृद्धभगिनीमिव ॥ वर्णयामः किमस्यामृतस्राविणीं बिभ्रतो भारती वज्रसूरीन्द्रवत् । वङ्कचूलो यथा धर्मघोषेण यद्येन रौद्रोऽपि भिल्लप्रभुर्बोधितः ॥ १२ ॥ अस्य हीरसूरेः किं वर्णयामः किं किं स्तुतिगोचरीकुर्मः । अस्य किं कुर्वतः । वनसूरीन्द्रवद्वज्रवामिनाम्न आचार्यपुरंदरस्येव अमृतस्राविणी सुधारसोद्गारिणीम् । पीयूषवर्षिणीमित्यर्थः । भारती वाणी वाग्विलासं बिभ्रतो धारयतः । यत्कारणायेन भगवता