________________
१२ सर्गः] हीरसौभाग्यम् । सया आदातुं गृहीतुमिच्छयेव त्रासमुत्पादयन्ती । असद्वस्तुग्रहणे समीहा भवेत् । यतः खयं श्यामवर्णत्वेन वर्णवर्णवपुः शोभादानमौचितीमञ्चति ॥ क्वापि विश्लेषयन्तीर्बकाञ्जीवनाद्धार्तराष्ट्रान्पुनर्भीमवाहा इव । राक्षसीवत्क्षपारागिणीरुत्पलाकाङ्क्षिणीः कुप्तकीलालपानाः पुनः ॥ ४५ ॥ कापि गृहोद्यानदीर्घिकादिप्रदेशे काश्चित् शबरनायकनितम्बिनीजीवनाबलात्सकाशात् वकान् बलाहकान् मीनाशिनो जलचरान् पक्षिविशेषान् तथा धार्तराष्ट्रान् सितेततरपक्षान् राजहंसजातिविशेषान् विश्लेषयन्तीः परस्परं खवशाभिः बालकैर्वा वियोगं नयन्तीः । उहाययन्तीरित्यर्थः । का इव । भीमवाहा इव । कुन्तीतनुजन्मत्रिकापेक्षजातीया . मध्यमपाण्डवस्य युधिष्ठिरानुजन्मनो वृकोदरभुजा यथा बकानिति बकनामानं राक्षसम् । बहुत्वं तु लङ्काधिपतिराक्षसराजत्वात् । तथा धार्तराष्ट्रान् धृतराष्ट्रस्यापत्यानि धृतराष्ट्रस्य पितृव्यस्य शतं दुर्योधनदुःशासनप्रमुखान् पुत्रान् जीवनाबीवितव्यात् विश्लेषयन्तीवियोजयन्तीः । निघ्नतीरित्यर्थः । पुनः काश्चित्क्षपामु हरिद्रासु। 'हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी' इति हैम्याम् । रात्रिसर्वनामभिरर्थे सति हरिद्रवोच्यते । यथा चम्पूकथायाम्-'वररजनीकरकान्ते' इति । 'निशानभः सदृशे मजनगृहे । किंलक्षणा । वरा । विशिष्टविज्ञानोपेता रजनीकरा हरिद्रोद्वर्तनादिकारकाः पुमांसस्तैः कान्ते प्रधाने । निशानभसि किंलक्षणे । वरः सर्वकलासंपूर्णो रजनीकरश्चन्द्रस्तेन मनोज्ञे' इति चम्पू. टिप्पनके । रागो वपुरुद्वर्तनादिना भासत्तिर्विद्यते यासाम् । तथा उत्पलानि कुवलयान्याकाइन्तीत्येवंशीलाः । पुनः कुप्तं रचितं कृतं कीलालस्य पानीयस्य पानं याभिः । किंवत् । राक्षसीवत् । यथा निशाचर्यः राक्षस्यः क्षपायां रजन्यां रागोऽस्त्यासाम् । रात्रिंचर• त्वात् । तथा उत्प्राबल्येन पलं मांसमाकासति सामस्त्येन वाञ्छतीत्येवंशीलाः । पला. दत्वात् । पुनः निर्मितं कीलालस्य रुधिरस्य पानं याभिः । अमृक्पत्वात् । 'रात्रिचरो रात्रिचरः पलाद: कीनाशरक्षोनिकसात्मजाश्च । क्रव्यात्कर्बुरनैर्ऋतामृक्पः' इति हैम्याम् । 'कीलालं रुधिरे नीरे' इत्यनेकार्थः ॥
केलिवापीपयोमज्जनव्याजतो नागनारीविजेतुं व्रजन्तीरिव । नागगेहोपसीदत्तदम्भोजद्दग्विभ्रमं कुर्वतीनिःसरन्तीः पुनः ॥ ४६ ॥ काश्चित्किरातेशितुः कान्ताः केलिवापीषु क्रीडाकृते या गृहोपवनदीर्घिकास्वासु पयसि खतन्त्रसलिलान्तरालखेलनसमये पयसि पानीये मजनानां क्रीडारसागडनाना दनुप्रादुर्भवनव्यतिकरे वा सलिलादहिर्निर्गच्छन्ती: सतीः नागगेहाद्भुजंगभवनादुपसीदन्तीनामागच्छन्तीनां तदम्भोजदृशां नागनिकेतननितम्बिनीनां विभ्रमं विशेषेण भ्रान्ति कुर्वतीः सृजन्तीरिव । एतद्दीपिकावारिवर्त्मना नागलोकात्कथंचिद्भूमण्डलालोकनकुतूहलात्क्रीडाकृते वा निर्गता नागाङ्गना इवेति भ्रमः ॥