________________
५४०
काव्यमाला।
त्सुकीभूता उत्कण्ठिता जाता दिडायका दिक्पाला यत्र ॥ इति हीरसूरेः पत्तने स. मागमनम् ॥ देशनामन्दिरं श्रीजिनेन्दोः पुरो व्यालुलोके वसत्यां व्रतीन्द्रस्ततः । आप्तमाराद्धकामेव लोकत्रयी वप्रत्रितयीकैतवात्समीयुषी ॥ ११ ॥ ततः पत्तने प्रवेशानन्तरं व्रतीन्द्रः सूरिः वसत्यामुपाश्रये पुरस्तात् श्रीजिनेन्दोः श्रिया त्रैलोक्याधिपत्यलक्ष्म्या कलितस्य जिनानां सामान्यकेवलिनां मध्ये इन्दुः सर्वाह्लादकत्वात्तीर्थकरस्तस्य यदने वर्ण्यमानं सुरासुरनरेषु प्रसिद्धं वा देशनामन्दिरं समवसरणं व्यालुलोके विलोकते स्म । दृष्टवानित्यर्थः । तत्किम् । यत्र धर्मदेशनामन्दिरे वप्रत्रितय्याः प्राकारत्रयस्य कपटात् । उत्प्रेक्ष्यते-आप्तं श्रीजिनेन्द्रमाराटुकामा सेवितुमभिलषन्ती लोकत्रयी त्रिलोकी समीयुषी समागतेव ॥
यत्र वापीषु पश्यन्ति शंभुश्रियं वारिदेव्यः सिताम्भोजनेरिव । . . अर्हतेव स्ववाचामृतं निर्जितं सेवितुं तं पुनस्तासु संतिष्ठते ॥ १२॥ . यत्र समवसरणे वापीषु जलसंपूर्णदीर्घिकासु वारिदेव्यो जलदेवताः स्मितानि विकसितानि अम्भोजानि कमलानि तान्येव नेत्राणि नयनानि तैः । उत्प्रेक्ष्यतेविकचकमललोचनैः कृत्वा शंभुश्रियं तीर्थकृतश्चतुस्त्रिंशदतिशायाद्यतिशायिलक्ष्मी प. श्यन्ति विलोकयन्तीव । पुनरर्हता जिनेन्द्रेण खवाचा मधुरिमाद्वैतात्मगिरा अमृतं पीयूषं निर्जितमभिभूतं सत् । उत्प्रेक्ष्यते-पुनस्तं जिनेन्द्रं सेवितुमुपासितुमिव तासु वापीषु संतिष्ठते समेत्य स्थितम् ॥
यत्र सोपानपतिः शिवाहं महागेहमारोढुमूहेऽधिरोहिण्यभात् । निम्नगेत्यात्मकौलीननिर्मुष्टये जाह्नवीवोत्तरङ्गागतार्हत्पदे ॥ १३ ॥ यत्र भगवत्समवसरणे सोपानपतिः आरोहणश्रेणी अभावभौ । उत्प्रेक्ष्यते-शिवं मोक्षमित्याहा नाम यस्य तादृशं महागेहमत्युच्चैःस्थानस्थितप्रासादमारोढुमुच्चैवढितुमधिरोहिणी निःश्रेणिकेव ऊहे इवार्थे । अथ वा वितर्कयामि । 'तपःकशाङ्गासं शैलमारोढुं न वयं क्षमाः। चटिष्यति कयं प्रौढदेहोऽयं गजराजवत् ॥' इति ऋषिमण्डलवृत्तौ । वा अथ का इयं निम्नगा नीचगामिनी । कामिन्यो नीचगामिन्यः इत्यप्यर्थध्वनिः । इत्यमुना प्रकारेण आत्मनः खस्य कौलीनस्य जनापवादस्य निर्मृष्टये विनाशनाय अर्हतस्त्रैलोक्यनाय. कस्य पदे चरणे समवसरणरूंपे वा स्थाने आगता समागतवती । उतरङ्गा उत् ऊ. र्ध्वमुच्चैस्तराः सोपानरूपास्तरङ्गाः कल्लोला यस्यास्ताशी जाह्नवी जद्रुकन्या गङ्गेच ॥ यत्र सृष्टैरिव श्रेयसे तोरणैः सार्वविश्वाधिपत्याभिषेकक्षणे ।
येन नेतुं जनान्मुक्तिपुर्यामिवोद्घाटितैारवारैः पुनः पुस्फुरे ॥ १४ ॥ यत्र समवसरणे तोरणैश्चतुर्दिक्प्रतोलीषु प्रणीबहिरैर्वन्दनमालाभिर्वा पुस्फुरे