________________
११ सर्गः)
हीरसौभाग्यम् । चरे विशदतां निर्मलतामुज्वलत्वं बिभ्राणा अपि धारयन्तोऽपि अन्तरा मध्ये छिद्रं रन्ध्र दोषमप्यगुणं वा दधति धारयन्ति अर्थापिशुनवदित्यादनुक्तमप्यवधारणीयम् । यथा खलो बाह्ये विशदतां हासितवदनत्वं दधानोऽपि परानर्थप्रथाविधायि दुष्टाशयतां धत्ते। यदुक्तम्-'मुखं पद्मसमाकारं वाचा चन्दनशीतला । हृदयं कर्तरीतुल्यं त्रिविधं धूर्तलक्षणम् ॥' इति । तेन कारणेन द्वेधापि बहिरन्तरापि शुद्धोऽत्युज्ज्वलः निर्मलो निष्पाप आत्मा खरूपं येषां तेषां महात्मनाममी नोचिता न योग्याः। पुनर्हे भूप, यतो हेतोरमी यानव्रजाः वाहनसमूहाः जडात्मवजडात्मान इव स्तम्भान् स्थूणान् जाज्यं च जुषन्ते सेवन्ते इति स्तम्भजुषः । च पुनः परानन्यान् जन्तून् वीवधैः खभारैः कृत्वा वाधन्ते पीडयन्ति । ततः कारणादेभिर्मतिमतामखण्डपण्डाशालिनां साधूनां न कृत्यं न किमपि कार्य विद्यते ॥
भूमीन्दोऽसिचया एते उचिता एव शस्त्रिणाम् ।
भवादृशां न चास्माकं शमसौहित्यशालिनाम् ॥ ११७ ॥ हे भूमीन्दो वसुधासुधाकर, एते असिचयाः खड्गगणाः शस्त्राणि प्रहरणानि धरन्ति रक्षयन्तीत्येवंशीलानां भवादृशां विविधायुधधारिणां विरोधिवधविधानोद्धतक्रोधोद्धराणां युष्मद्विधानामेव उचिता योग्याः । अथ च वास्तवार्थे सिचया वस्त्राणि युष्मा. दृशां बहुमूल्यत्वाद्भुमीन्द्राणामेव योग्यानि । न पुनः शमेन शान्तरसाखादेन यत्सौहित्यं तृप्तिस्वप्तिस्तया शालन्ते शोभन्ते इत्येवंशीलानां मित्रामित्राजनसदृशदृशामस्मादृशामुचिताः । यदुक्तम्-'भुञ्जीमहि वयं भैक्ष्य जीर्ण वासो वसीमहि । शयीमहि महीपीठे कुर्वीमहि किमीश्वरे ॥' इति ॥ इति खानस्य तुरङ्गादिप्रदानाग्रहे गुरोः प्रतिक्चनानि ॥
एष निपीय कवेरिव वाचं श्लेषविशेषवतीं व्रतिभर्तुः।
प्रीतमना इति तं प्रति वाणीं वासयति स्म पुनर्वदनाने॥१४८॥ - प्रीतं गुरोरतिनिर्लोभतानिभालनात्संतुष्टं मनो मानसं यस्य तादृश एष साहिबखानः इत्यमुना प्रकारेण तं सूरिं प्रति वदनाब्जे निजमुखकमले वाणी गिरं वाग्देवतां वासयति स्म वासितवान् । उवाचेत्यर्थः । अथ च लक्ष्मी मिव वाग्वादिनी पद्मवासिनी कृतवानित्यप्यर्थध्वनिः । किं कृत्वा । कवेः काव्यकर्तुरिव अथ च कवेः शुक्रस्येव । 'अजस्रमभ्यासमुपेयुषा समं मुदेव देवः कविना बुधेन च' इति नैषधे । कविः काव्यकर्ता । तथा शुक्रः । बुधो विद्वान् । चन्द्राङ्गजश्च । तथा 'उशना भार्गवः कविः' इति हैम्याम् । अथ चायं मुद्रत्वादसुरः असुराणां गुरुत्वाच्च कविवाग्यानमुचितमेव सूरिः सुगणां गुरुर्नामुराणामिति वचनाच्च सूरेः श्लेषानां श्लेषोक्तीनां विशेषा अतिशया विद्यन्ते यस्यां सा श्लेषविशेषवती तादृशीं वाचं भारतीं निपीय सादरं श्रुत्वा ।