________________
. ११ सर्गः] हीरसौभाग्यम् ।
१२९ पिशुनवचनाकर्णनपरान् । पुनः किंभूतान् । चक्रं जातिवभावाकुटिलं कृतमास्यं वदनं यः । तथा परोपकारादिकरणे वैमुख्यभाजः । पुन: किंभूतान् । धृतमङ्गीकृतं चापलं चक्रगमनोलनफालादि यैस्तथा । परदार गमनादिमकलितस्वभावान् । पुनः किं कुर्वतः । सकोपानिव क्रोधोद्धतानिव । क्षमा क्षोणी निघ्नतः पदप्रहारादिना प्रहरतः सकोपाः शान्तिमुपशमं घातयन्ति । नृपास्तु नवीनकरकरणजननिग्रहदण्डादिना पृथ्वी पीडयन्ति ॥
मदोद्धतत्वं मधुपानुषङ्गितां मातङ्गतामाश्रयशाखिघातिताम् । यस्माद्वहन्ते नृपते मतङ्गजाः सतां तदेषां न शिवाय संगमः ॥१४॥ हे नृपते राजन् , यस्मात्कारणात् एते त्वया मदर्थमानायिता अमी मतङ्गजा हस्तिनः मदैः क्षीवताभिः दानप्रवाहैश्च उद्धतत्वमुन्मत्तताम् , तथा मधुपैर्मद्यपानविधायिभिभ्रमरैश्वानुषङ्गः सङ्गोऽस्त्येषामिति मधुपानुषङ्गिनः तत्ताम् , तथा मातङ्गतां चण्डालतामस्पृश्यभावं गजताम् , तथा आश्रयाणां स्थानदायिनां छायाशनादिप्रदानैः सुखकारिणां वा शाखिना शाखाः पुत्रपौत्रप्रपौत्रादीनां विस्तारा विद्यन्ते येषां ते शाखिनस्तेषामाश्रयभूतानां कुटुम्बभाजां कुटुम्बवृद्धानां पोषकाणां वा । 'शाखा द्वमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके' इत्यनेकार्थः । 'पक्षान्तरे संततिविशेषे' इत्यवचूर्णिः। द्रुमाणां च घातितां हननशीलतां वहन्ते बिभ्रते । तत्कारणादेषां गजानां संगमः सतां साधूनां न शिवाय न शुभाय मोक्षाय च ॥
द्यूतकृदिवाक्षविलसन्नरियुक्तः पिशुनवत्पुराधीश । निर्वृण्वद्भिः सद्भिः शताङ्गराशि काम्येत ॥ १४२ ॥ हे पुराधीश राजनगरनायक, निर्वृण्वद्भिः निर्वृतिं सुखं मोक्षं च कासद्भिः साधुभिः । निर्वृणोमि नगतो वसुमत्या स्वारसातलभवाहवशडी' इति नैषधे । 'निवृति न प्राप्नोमि' इति तद्वृत्तिः । शताङ्गराशिः स्यन्दननिवहः । शतानि शतश: अङ्गानि उपसर्जनभूताः प्रकाराः क्लेशादयो येषु ते भवा जन्मानि तेषां गणः भवपरम्परा न काम्येत नाभिलष्येत । 'अङ्गमन्तिकगात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥' इत्यनेकार्थः । तथा 'गौणोपसर्जनोपाग्राण्यप्रधाने' इति हेम्यामपि । किंभूतः । अक्षेण रथावयवविशेषेण विलसन् शोभमानः । क इव । द्यूतकृ दिव । यथा द्यूतकारः अक्षः प्रासकैः ‘पासा' इति प्रसिद्धनामभिर्विशेषेण नक्तं दिनं लसन् क्रीडन् रममाणो भवेत् । 'लस श्लेषकीडनयोः' इत्ययं धातुः । पुनः किंभूतः । अराः सन्त्यनयो रथपादयोश्चक्रयोस्ते अरिणी रथाङ्गे ताभ्यां युक्तः कलितः । क इव । पिशुन इव यथा द्विजिलः खलः अरिभिर्युको भवति । प्रायः खलानां बहवो वैरिणः स्युः । अथ वा अरित्वेन वैरिभावेन सर्वेषामपि शत्रुतया युक्तः । खल: खलु जगतोऽपि शत्रुभूतो न कस्यापि मित्रमिति । यदुक्तम्-'मृगमीनसबनानां तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना नि. कारणवैरिणो जगति ॥' इति ॥